अथर्ववेद - काण्ड 20/ सूक्त 107/ मन्त्र 12
सूक्त - बृहद्दिवोऽथर्वा
देवता - इन्द्रः
छन्दः - भुरिक्परातिजागतात्रिष्टुप्
सूक्तम् - सूक्त-१०७
ए॒वा म॒हान्बृ॒हद्दि॑वो॒ अथ॒र्वावो॑च॒त्स्वां त॒न्वमिन्द्र॑मे॒व। स्वसा॑रौ मात॒रिभ्व॑री अरि॒प्रे हि॒न्वन्ति॑ चैने॒ शव॑सा व॒र्धय॑न्ति च ॥
स्वर सहित पद पाठए॒व । म॒हान् । बृ॒हत्ऽदि॑व: । अथ॑र्वा । अवो॑चत् । स्वाम् । त॒न्व॑म् । इन्द्र॑म् । ए॒व ॥ स्वसा॑रौ । मा॒त॒रिभ्व॑री॒ इति॑ । अ॒रि॒प्रे इति॑ । हि॒न्वन्ति॑ । च॒ । ए॒ने॒ इति॑ । शव॑सा । व॒र्धय॑न्ति । च॒ ॥१०७.१२॥
स्वर रहित मन्त्र
एवा महान्बृहद्दिवो अथर्वावोचत्स्वां तन्वमिन्द्रमेव। स्वसारौ मातरिभ्वरी अरिप्रे हिन्वन्ति चैने शवसा वर्धयन्ति च ॥
स्वर रहित पद पाठएव । महान् । बृहत्ऽदिव: । अथर्वा । अवोचत् । स्वाम् । तन्वम् । इन्द्रम् । एव ॥ स्वसारौ । मातरिभ्वरी इति । अरिप्रे इति । हिन्वन्ति । च । एने इति । शवसा । वर्धयन्ति । च ॥१०७.१२॥
अथर्ववेद - काण्ड » 20; सूक्त » 107; मन्त्र » 12
Translation -
Thus, the great, highle enlightened man of firm attitude (Atharva) pronounces his comprehnsive prayer and praise to Almighty Divinity alone. In this way the day and night like two sisters present on the earth and these perfect sun and earth with their power please Him and magnify His glory.