अथर्ववेद - काण्ड 20/ सूक्त 107/ मन्त्र 13
चि॒त्रं दे॒वानां॑ के॒तुरनी॑कं॒ ज्योति॑ष्मान्प्र॒दिशः॒ सूर्य॑ उ॒द्यन्। दि॑वाक॒रोऽति॑ द्यु॒म्नैस्तमां॑सि॒ विश्वा॑तारीद्दुरि॒तानि॑ शु॒क्रः ॥
स्वर सहित पद पाठचि॒त्रम् । दे॒वाना॑म् । के॒तु: । अनी॑कम् । ज्योति॑ष्मान् । प्र॒ऽदिश॑: । सूर्य॑: । उ॒त्ऽवन् ॥ दि॒वा॒ऽक॒र: । अति॑ । द्यु॒म्नै: । तमां॑सि । विश्वा॑ । अ॒ता॒री॒त् । दु॒:ऽइ॒तानि॑ । शु॒क्र: ॥१०७.१३॥
स्वर रहित मन्त्र
चित्रं देवानां केतुरनीकं ज्योतिष्मान्प्रदिशः सूर्य उद्यन्। दिवाकरोऽति द्युम्नैस्तमांसि विश्वातारीद्दुरितानि शुक्रः ॥
स्वर रहित पद पाठचित्रम् । देवानाम् । केतु: । अनीकम् । ज्योतिष्मान् । प्रऽदिश: । सूर्य: । उत्ऽवन् ॥ दिवाऽकर: । अति । द्युम्नै: । तमांसि । विश्वा । अतारीत् । दु:ऽइतानि । शुक्र: ॥१०७.१३॥
अथर्ववेद - काण्ड » 20; सूक्त » 107; मन्त्र » 13
Translation -
Bright, presence of luminous bodies, and the brillant herald of this sun mounting the celestial regions, makes the day, dispels the darkness and shining in radiance passes over the places hard to traverse.