ऋग्वेद - मण्डल 7/ सूक्त 85/ मन्त्र 5
इ॒यमिन्द्रं॒ वरु॑णमष्ट मे॒ गीः प्राव॑त्तो॒के तन॑ये॒ तूतु॑जाना । सु॒रत्ना॑सो दे॒ववी॑तिं गमेम यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
स्वर सहित पद पाठइ॒यम् । इन्द्र॑म् । वरु॑णम् । अ॒ष्ट॒ । मे॒ । गीः । प्र । आ॒व॒त् । तो॒के । तन॑ये । तूतु॑जाना । सु॒ऽरत्ना॑सः । दे॒वऽवी॑तिम् । ग॒मे॒म॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
स्वर रहित मन्त्र
इयमिन्द्रं वरुणमष्ट मे गीः प्रावत्तोके तनये तूतुजाना । सुरत्नासो देववीतिं गमेम यूयं पात स्वस्तिभि: सदा नः ॥
स्वर रहित पद पाठइयम् । इन्द्रम् । वरुणम् । अष्ट । मे । गीः । प्र । आवत् । तोके । तनये । तूतुजाना । सुऽरत्नासः । देवऽवीतिम् । गमेम । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥ ७.८५.५
ऋग्वेद - मण्डल » 7; सूक्त » 85; मन्त्र » 5
अष्टक » 5; अध्याय » 6; वर्ग » 7; मन्त्र » 5
अष्टक » 5; अध्याय » 6; वर्ग » 7; मन्त्र » 5
विषयः - अथोक्तशक्त्यर्थं परमात्मनः प्रार्थ्यते।
पदार्थः -
(मे) मदीयाम् (इयम्) इयमुच्चार्यमाणा (गीः) वेदवाक् (इन्द्रम्, वरुणम्) इन्द्रवरुणात्मकशक्तिं (अष्ट) व्याप्नोतु (तूतुजाना) मया प्रेर्यमाणेयं वाणी (तोके, तनये) पुत्रे पौत्रे च विषये (प्र, आवत्) सम्यग् रक्षतु, वयं च (सुरत्नासः) धनाद्यैश्वर्यसम्पन्नाः सन्तः (देववीतिम्) विदुषां यज्ञशालां (गमेम) गच्छेम, हे भगवन् ! (यूयम्) भवान् (नः) अस्मान् (स्वस्तिभिः) आशीर्वाग्भिः (सदा) शश्वत् (पात) रक्षतु ॥५॥ इति पञ्चाशीतितमं सूक्तं सप्तमो वर्गश्च समाप्तः ॥