ऋग्वेद - मण्डल 9/ सूक्त 61/ मन्त्र 1
अ॒या वी॒ती परि॑ स्रव॒ यस्त॑ इन्दो॒ मदे॒ष्वा । अ॒वाह॑न्नव॒तीर्नव॑ ॥
स्वर सहित पद पाठअ॒या । वी॒ती । परि॑ । स्र॒व॒ । यः । ते॒ । इ॒न्दो॒ इति॑ । मदे॑षु । आ । अ॒व॒ऽअह॑न् । न॒व॒तीः । नव॑ ॥
स्वर रहित मन्त्र
अया वीती परि स्रव यस्त इन्दो मदेष्वा । अवाहन्नवतीर्नव ॥
स्वर रहित पद पाठअया । वीती । परि । स्रव । यः । ते । इन्दो इति । मदेषु । आ । अवऽअहन् । नवतीः । नव ॥ ९.६१.१
ऋग्वेद - मण्डल » 9; सूक्त » 61; मन्त्र » 1
अष्टक » 7; अध्याय » 1; वर्ग » 18; मन्त्र » 1
अष्टक » 7; अध्याय » 1; वर्ग » 18; मन्त्र » 1
विषयः - अथेश्वरेण क्षात्रधर्म उपदिश्यते।
पदार्थः -
(इन्दो) हे सेनाधीश ! (यः) यो वैरी (ते) तव (मदेषु) सर्वसुखकारकप्रजारक्षणेषु (आ) विघ्नं करोतु तं (अया वीती परिस्रव) स्वकीयाभिः क्रियाभिरभिभूतं कुरु। अथ च (अवाहन् नवतीः नव) नवनवतिविधदुर्गाणां विध्वंसनं कुरु ॥१॥