ऋग्वेद - मण्डल 9/ सूक्त 73/ मन्त्र 5
पि॒तुर्मा॒तुरध्या ये स॒मस्व॑रन्नृ॒चा शोच॑न्तः सं॒दह॑न्तो अव्र॒तान् । इन्द्र॑द्विष्टा॒मप॑ धमन्ति मा॒यया॒ त्वच॒मसि॑क्नीं॒ भूम॑नो दि॒वस्परि॑ ॥
स्वर सहित पद पाठपि॒तुः मा॒तुः । अधि॑ । आ । ये । स॒म्ऽअस्व॑रन् । ऋ॒चा । शोच॑न्तः । स॒म्ऽदह॑न्तः । अ॒व्र॒तान् । इन्द्र॑ऽद्विष्टाम् । अप॑ । ध॒म॒न्ति॒ । मा॒यया॑ । त्वच॑म् । असि॑क्नीम् । भूम॑नः । दि॒वः । परि॑ ॥
स्वर रहित मन्त्र
पितुर्मातुरध्या ये समस्वरन्नृचा शोचन्तः संदहन्तो अव्रतान् । इन्द्रद्विष्टामप धमन्ति मायया त्वचमसिक्नीं भूमनो दिवस्परि ॥
स्वर रहित पद पाठपितुः मातुः । अधि । आ । ये । सम्ऽअस्वरन् । ऋचा । शोचन्तः । सम्ऽदहन्तः । अव्रतान् । इन्द्रऽद्विष्टाम् । अप । धमन्ति । मायया । त्वचम् । असिक्नीम् । भूमनः । दिवः । परि ॥ ९.७३.५
ऋग्वेद - मण्डल » 9; सूक्त » 73; मन्त्र » 5
अष्टक » 7; अध्याय » 2; वर्ग » 29; मन्त्र » 5
अष्टक » 7; अध्याय » 2; वर्ग » 29; मन्त्र » 5
पदार्थः -
ये मनुष्याः (पितुः मातुः) मातापित्रोः शिक्षां प्राप्य सुशिक्षिताः सन्ति अथ (ये) ये जनाः (ऋचा) वेदस्य ऋग्भिः (समस्वरन्) स्वीयजीवनयात्रां कुर्वन्ति तथा (शोचन्तोऽव्रतान्) शोकशीलानव्रतिनः (सन्दहन्तः) सम्यग्दाहकास्सन्ति तथा ये (मायया) स्वकीयापूर्वशक्त्या (इन्द्रद्विष्टाम् अप धमन्ति) ईश्वराज्ञाभञ्जकानां राक्षसानां निहन्तारस्सन्ति अथ च ये राक्षसाः (असिक्नीम्) रात्रेरन्धकारमिव (भूमनः) भूलोकस्य तथा (दिवः) द्युलोकस्य (परि) सर्वतः (त्वचम्) त्वगिव वर्तमानास्तेषां नाशकाः पितृमन्तो मातृमन्तश्च कथ्यन्ते ॥५॥