अथर्ववेद - काण्ड 10/ सूक्त 3/ मन्त्र 8
सूक्त - अथर्वा
देवता - वरणमणिः, वनस्पतिः, चन्द्रमाः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - सपत्नक्षयणवरणमणि सूक्त
यन्मे॑ मा॒ता यन्मे॑ पि॒ता भ्रात॑रो॒ यच्च॑ मे॒ स्वा यदेन॑श्चकृ॒मा व॒यम्। ततो॑ नो वारयिष्यते॒ऽयं दे॒वो वन॒स्पतिः॑ ॥
स्वर सहित पद पाठयत् । मे॒ । मा॒ता । यत् । मे॒ । पि॒ता । भ्रात॑र: । यत् । च॒ । स्वा: । यत् । एन॑: । चकृ॒म: । व॒यम् । तत॑: । न॒: । वा॒र॒यि॒ष्य॒ते॒ । अ॒यम् । दे॒व: । वन॒स्पति॑: ॥३.८॥
स्वर रहित मन्त्र
यन्मे माता यन्मे पिता भ्रातरो यच्च मे स्वा यदेनश्चकृमा वयम्। ततो नो वारयिष्यतेऽयं देवो वनस्पतिः ॥
स्वर रहित पद पाठयत् । मे । माता । यत् । मे । पिता । भ्रातर: । यत् । च । स्वा: । यत् । एन: । चकृम: । वयम् । तत: । न: । वारयिष्यते । अयम् । देव: । वनस्पति: ॥३.८॥
अथर्ववेद - काण्ड » 10; सूक्त » 3; मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८−(यत्) यत् किञ्चित् (मे) मम (भ्रातरः) सहोदराः (स्वाः) ज्ञातयः (एनः) पापम् (चकृम) कृतवन्तः (ततः) पापात् (नः) अस्मान् (वारयिष्यते) प्रतिरोत्स्यते (अयम्) (देवः) दिव्यगुणः (वनस्पतिः) अ० ६।८५।१। वननीयानां सेवनीयानां गुणानां पालकः। अन्यत् सुगमम् ॥
इस भाष्य को एडिट करें