Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 3/ मन्त्र 9
    सूक्त - अथर्वा देवता - वरणमणिः, वनस्पतिः, चन्द्रमाः छन्दः - अनुष्टुप् सूक्तम् - सपत्नक्षयणवरणमणि सूक्त

    व॑र॒णेन॒ प्रव्य॑थिता॒ भ्रातृ॑व्या मे॒ सब॑न्धवः। अ॒सूर्तं॒ रजो॒ अप्य॑गु॒स्ते य॑न्त्वध॒मं तमः॑ ॥

    स्वर सहित पद पाठ

    व॒र॒णेन॑ । प्रऽव्य॑थिता: । भ्रातृ॑व्या: । मे॒ । सऽब॑न्धव: । अ॒सूर्त॑म् । रज॑: । अपि॑ । अ॒गु॒: । ते । य॒न्तु॒ । अ॒ध॒मम् । तम॑: ॥३.९॥


    स्वर रहित मन्त्र

    वरणेन प्रव्यथिता भ्रातृव्या मे सबन्धवः। असूर्तं रजो अप्यगुस्ते यन्त्वधमं तमः ॥

    स्वर रहित पद पाठ

    वरणेन । प्रऽव्यथिता: । भ्रातृव्या: । मे । सऽबन्धव: । असूर्तम् । रज: । अपि । अगु: । ते । यन्तु । अधमम् । तम: ॥३.९॥

    अथर्ववेद - काण्ड » 10; सूक्त » 3; मन्त्र » 9

    टिप्पणीः - ९−(वरणेन) म० १। श्रेष्ठेन (प्रव्यथिताः) अतिपीडिताः (भ्रातृव्याः) शत्रवः (मे) मम (सबन्धवः) बान्धवैः सहिताः (असूर्तम्) नसत्तनिषत्तानुत्त०। पा० ८।२।६१। नञ्+सृ गतौ-क्त, ऋकारस्य उत्वम्। असरणीयमगन्तव्यम् (रजः) लोकम् (अपि) एव (अगुः) प्रापुः (ते) शत्रवः (यन्तु) गच्छन्तु (अधमम्) अतिनीचम् (तमः) अन्धकारम् ॥

    इस भाष्य को एडिट करें
    Top