Loading...
अथर्ववेद > काण्ड 2 > सूक्त 12

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 12/ मन्त्र 7
    सूक्त - भरद्वाजः देवता - यमसादनम्, ब्रह्मा छन्दः - अनुष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    स॒प्त प्रा॒णान॒ष्टौ म॒न्यस्तांस्ते॑ वृश्चामि॒ ब्रह्म॑णा। अया॑ य॒मस्य॒ साद॑नम॒ग्निदू॑तो॒ अरं॑कृतः ॥

    स्वर सहित पद पाठ

    स॒प्त । प्रा॒णान् । अ॒ष्टौ । म॒न्य: । तान् । ते॒ । वृ॒श्चा॒मि॒ । ब्रह्म॑णा । अया॑: । य॒मस्य॑ । सद॑नम् । अ॒ग्निऽदू॑त: । अर॑म्ऽकृत: ॥१२.७॥


    स्वर रहित मन्त्र

    सप्त प्राणानष्टौ मन्यस्तांस्ते वृश्चामि ब्रह्मणा। अया यमस्य सादनमग्निदूतो अरंकृतः ॥

    स्वर रहित पद पाठ

    सप्त । प्राणान् । अष्टौ । मन्य: । तान् । ते । वृश्चामि । ब्रह्मणा । अया: । यमस्य । सदनम् । अग्निऽदूत: । अरम्ऽकृत: ॥१२.७॥

    अथर्ववेद - काण्ड » 2; सूक्त » 12; मन्त्र » 7

    टिप्पणीः - ७–सप्त। सप्यशूभ्यां तुट् च। उ० १।१।१५७। इति षप समवाये–कनिन्, तुट् च। सप्तसंख्याकान्। प्राणान्। प्र+अन जीवने–करणे घञ्, प्राणिति जीवत्यनेन। शीर्षण्यानि कर्णनासिकादीन्द्रियानि। अष्टौ। सप्यशूभ्यां तुट् च। उ० १।१५७। इति अशू व्याप्तौ–कनिन्, तुट् च। अष्टाभ्य औश्। पा० ७।१।२१। इति औश्। अष्टसंख्याकाः। मन्यः। मन धृतौ–क्यप्, स्त्रियां टाप्। लिपिप्रमादेन मन्याः–इत्यस्य स्थाने मन्यः, इति जातमनुमीयते। ग्रीवायाः पश्चात् शिराः। अत्र तु हस्तपादद्वयस्थान् अष्टप्रधानावयवान्। वृश्चामि। छिनद्मि। ब्रह्मणा। वेदज्ञानेन। धर्मेण। अयाः। या प्रापणे–लङ्। त्वं प्राप्तवानसि। यमस्य। यम प्रतिबन्धे–अच्, यमयति नियमयति जीवानां पुण्यापुण्यफलम्। न्यायकारिणः पुरुषस्य। मृत्योः। सादनम्। पद गतौ–ल्युट्, सीदन्त्यत्र। सांहितिको दीर्घः। सदनम्। गृहम्। अग्निदूतः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। अग्निर्दूतः अनुचरो यस्य स तथोक्तः। अरंकृतः। ऋ गतौ–अच्, इयर्त्ति गच्छत्यनेनेति अरं शीघ्रम्। शीघ्रीकृतः। शीघ्रं न्यायालये प्राप्तः ॥

    इस भाष्य को एडिट करें
    Top