अथर्ववेद - काण्ड 2/ सूक्त 12/ मन्त्र 8
सूक्त - भरद्वाजः
देवता - अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
आ द॑धामि ते प॒दं समि॑द्धे जा॒तवे॑दसि। अ॒ग्निः शरी॑रं वेवे॒ष्ट्वसुं॒ वागपि॑ गच्छतु ॥
स्वर सहित पद पाठआ । द॒धा॒मि॒ । ते॒ । प॒दम् । सम्ऽइ॑ध्दे । जा॒तऽवे॑दसि । अ॒ग्नि: । शरी॑रम् । वे॒वे॒ष्टु॒ । असु॑म् । वाक् । अपि॑ । ग॒च्छ॒तु॒ ॥१२.८॥
स्वर रहित मन्त्र
आ दधामि ते पदं समिद्धे जातवेदसि। अग्निः शरीरं वेवेष्ट्वसुं वागपि गच्छतु ॥
स्वर रहित पद पाठआ । दधामि । ते । पदम् । सम्ऽइध्दे । जातऽवेदसि । अग्नि: । शरीरम् । वेवेष्टु । असुम् । वाक् । अपि । गच्छतु ॥१२.८॥
अथर्ववेद - काण्ड » 2; सूक्त » 12; मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८–आ। समन्तात्। दधामि। स्थापयामि। ते। तव। त्वदीयम्। पदम्। नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः। पा० ३।१।१३४। इति पद गत्याम्–अच्। व्यवसायम्। स्थानम्। पादम्। समिद्धे। सम्+इन्धी दीप्तौ–क्त। प्रदीप्ते। जातवेदसि। अ० १।७।२। जात+विद वेदनायां, ज्ञाने, सत्तायाम्, यद्वा विद्लृ लाभे–असुन्। जातं वेदो वेदना दुःखं यस्मात् स जातवेदाः, तस्मिन् पीडाजनके अग्नौ। अग्निः। पावकः। शरीरम्। कॄशॄपॄकटिपटिशौटिभ्य ईरन्। उ० ४।३०। इति शॄ हिंसायाम्–ईरन्। शीर्य्यते हिंस्यते रोगादिना यत्। गात्रम्। कायम्। वेवेष्टु। विष्लृ व्याप्तौ। जुहोत्यादित्वात् शपः श्लुः। णिजां त्रयाणां गुणः श्लौ। पा० ७।४।७५। प्रविशतु। असुम्। शॄस्वृस्निहित्रप्यसिवसि। उ० १।१०। इति असु क्षेपणे–उ प्रत्ययः। असुरिति प्राणनामास्तः शरीरे भवति–निरु० ३।८। प्राणम्। स्वकारणम्। वाक्। क्विप् वचिप्रच्छिश्रि०। उ० २।५७। इति वच कथने–क्विप्, दीर्घोऽसम्प्रसारणं च। वागिन्द्रियम्। गच्छतु। प्राप्नोतु ॥
इस भाष्य को एडिट करें