Loading...
अथर्ववेद > काण्ड 20 > सूक्त 138

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 138/ मन्त्र 2
    सूक्त - वत्सः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त १३८

    प्र॒जामृ॒तस्य॒ पिप्र॑तः॒ प्र यद्भर॑न्त॒ वह्न॑यः। विप्रा॑ ऋ॒तस्य॒ वाह॑सा ॥

    स्वर सहित पद पाठ

    प्र॒ऽजाम् । ऋ॒तस्य॑ । पिप्र॑त: । प्र । यत् । भर॑न्त । वह्न॑य: ॥ विप्रा॑: । ऋ॒तस्य॑ । वाह॑सा ॥१३८.२॥


    स्वर रहित मन्त्र

    प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः। विप्रा ऋतस्य वाहसा ॥

    स्वर रहित पद पाठ

    प्रऽजाम् । ऋतस्य । पिप्रत: । प्र । यत् । भरन्त । वह्नय: ॥ विप्रा: । ऋतस्य । वाहसा ॥१३८.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 138; मन्त्र » 2

    टिप्पणीः - २−(प्रजाम्) राज्यजनान् (ऋतस्य) सत्यधर्मस्य (पिप्रतः) पालनं कुर्वन्तः (प्र) प्रकर्षेण (यत्) यदा (भरन्त) भरन्ति। पुष्णन्ति (वह्नयः) वोढारः। नेतारः पुरुषाः (विप्राः) मेधाविनः (ऋतस्य) सत्यधर्मस्य (वाहसा) वहियुभ्यां णित्। स० ३।११९। वह प्रापणे-असच्, स च णित्, विसर्गलोपः। वाहसाः। वोढारः प्रापयितारः सन्ति ॥

    इस भाष्य को एडिट करें
    Top