Loading...
अथर्ववेद > काण्ड 20 > सूक्त 24

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 24/ मन्त्र 9
    सूक्त - विश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-२४

    त्वां सु॒तस्य॑ पी॒तये॑ प्र॒त्नमि॑न्द्र हवामहे। कु॑शि॒कासो॑ अव॒स्यवः॑ ॥

    स्वर सहित पद पाठ

    त्वाम् । सु॒तस्य॑ । पी॒तये॑ । प्र॒त्नम् । इ॒न्द्र॒ । ह॒वा॒म॒हे॒ ॥ कु॒शि॒कास॑: । अ॒व॒स्यव॑: ॥२४.९॥


    स्वर रहित मन्त्र

    त्वां सुतस्य पीतये प्रत्नमिन्द्र हवामहे। कुशिकासो अवस्यवः ॥

    स्वर रहित पद पाठ

    त्वाम् । सुतस्य । पीतये । प्रत्नम् । इन्द्र । हवामहे ॥ कुशिकास: । अवस्यव: ॥२४.९॥

    अथर्ववेद - काण्ड » 20; सूक्त » 24; मन्त्र » 9

    टिप्पणीः - ९−(त्वाम्) (सुतस्य) संस्कृतस्य रसस्य (पीतये) पानाय (प्रत्नम्) नश्च पुराणे प्रात्। वा० पा० ।४।२। प्र-त्नप्-प्रत्ययः। पुराणम्-निघ० ३।२७। अनुभविपुरुषम् (इन्द्र) (हवामहे) आह्वयामः (कुशिकासः) वृश्चिकृष्योः किकन्। उ० २।४०। कुश संश्लेषणे-किकन्, असुगागमः। कुशिको राजा बभूव क्रोशतेः शब्दकर्मणः क्रंशतेर्वा स्यात् प्रकाशयतिकर्मणः साधु विक्रोशयितार्थानामिति वा-निरु० २।२। संगन्तारो वयम् (अवस्यवः) अ० २०।१४।१। रक्षाकामः ॥

    इस भाष्य को एडिट करें
    Top