अथर्ववेद - काण्ड 20/ सूक्त 25/ मन्त्र 1
अश्वा॑वति प्रथ॒मो गोषु॑ गच्छति सुप्रा॒वीरि॑न्द्र॒ मर्त्य॒स्तवो॒तिभिः॑। तमित्पृ॑णक्षि॒ वसु॑ना॒ भवी॑यसा॒ सिन्धु॒मापो॒ यथा॒भितो॒ विचे॑तसः ॥
स्वर सहित पद पाठअश्व॑ऽवति । प्र॒थ॒म: । गोषु॑ । ग॒च्छ॒ति॒ । सु॒प्र॒ऽअ॒वी: । इ॒न्द्र॒ । मर्त्य॑: । तव॑ । ऊ॒तिऽभि॑: ॥ तम् । इत् । पृ॒ण॒क्षि॒ । वसु॑ना । भवी॑यसा । सिन्धु॑म् । आप॑: । यथा॑ । अ॒भित॑: । विऽचे॑तस: ॥२५.१॥
स्वर रहित मन्त्र
अश्वावति प्रथमो गोषु गच्छति सुप्रावीरिन्द्र मर्त्यस्तवोतिभिः। तमित्पृणक्षि वसुना भवीयसा सिन्धुमापो यथाभितो विचेतसः ॥
स्वर रहित पद पाठअश्वऽवति । प्रथम: । गोषु । गच्छति । सुप्रऽअवी: । इन्द्र । मर्त्य: । तव । ऊतिऽभि: ॥ तम् । इत् । पृणक्षि । वसुना । भवीयसा । सिन्धुम् । आप: । यथा । अभित: । विऽचेतस: ॥२५.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 25; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - मन्त्र १-६ ऋग्वेद में हैं-१।८३।१-६ ॥ १−(अश्वावति) मन्त्रे सोमाश्वे०। पा० ६।३।१३१। इति दीर्घः। श्रेष्ठाश्वैर्युक्तै सैन्ये (प्रथमः) मुख्यः (गोषु) भूमिदेशेषु (गच्छति) चलति (प्राचीः) अवितॄस्तृतन्त्रिभ्य ईः। उ० ३।१८। अव रक्षणे-ईप्रत्ययः। सुरक्षकः (इन्द्र) हे परमैश्वर्यवन् परमेश्वर राजन् वा (मर्त्यः) मनुष्यः (तव) (ऊतिभिः) रक्षाभिः (तम्) मनुष्यम् (इत्) एव (पृणक्षि) पृची सम्पर्के। संयोजयसि। पूरयसि (वसुना) धनेन (भवीयसा) भवितृ-ईयसुन्। तुरिष्ठेमेयःसु। पा० ६।४।१४। इति तृलोपः। अत्यधिकेन। भूयसा (सिन्धुम्) समुद्रम् (आपः) जलानि (यथा) येन प्रकारेण (अभितः) सर्वतः (विचेतसः) विविधानि चेतांसि ज्ञानानि यासां ताः। विविधज्ञातव्याः ॥
इस भाष्य को एडिट करें