Loading...
अथर्ववेद > काण्ड 20 > सूक्त 25

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 25/ मन्त्र 4
    सूक्त - गोतमः देवता - इन्द्रः छन्दः - जगती सूक्तम् - सूक्त-२५

    आदङ्गि॑राः प्रथ॒मं द॑धिरे॒ वय॑ इ॒द्धाग्न॑यः॒ शम्या॒ ये सु॑कृ॒त्यया॑। सर्वं॑ प॒णेः सम॑विन्दन्त॒ भोज॑न॒मश्वा॑वन्तं॒ गोम॑न्त॒मा प॒शुं नरः॑ ॥

    स्वर सहित पद पाठ

    आत् । अङ्गि॑रा: । प्र॒थ॒मम् । द॒धि॒रे॒ । वय॑: । इ॒द्धऽअ॑ग्नय: । शम्या॑ । ये । सु॒ऽकृ॒त्यया॑ ॥ सर्व॑म् । प॒णे: । सम् । अ॒वि॒न्द॒न्त॒ । भोज॑नम् । अश्व॑ऽवन्तम् । गोऽम॑न्तम् । आ । प॒शुम् । नर॑: ॥२५.४॥


    स्वर रहित मन्त्र

    आदङ्गिराः प्रथमं दधिरे वय इद्धाग्नयः शम्या ये सुकृत्यया। सर्वं पणेः समविन्दन्त भोजनमश्वावन्तं गोमन्तमा पशुं नरः ॥

    स्वर रहित पद पाठ

    आत् । अङ्गिरा: । प्रथमम् । दधिरे । वय: । इद्धऽअग्नय: । शम्या । ये । सुऽकृत्यया ॥ सर्वम् । पणे: । सम् । अविन्दन्त । भोजनम् । अश्वऽवन्तम् । गोऽमन्तम् । आ । पशुम् । नर: ॥२५.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 25; मन्त्र » 4

    टिप्पणीः - ४−(आत्) अनन्तरम् (अङ्गिराः) अ० १९।३४।। अगि गतौ-किरच् नित्। विज्ञानिनः। ऋषयः (प्रथमम्) श्रेष्ठम् (दधिरे) धारितवन्तः (वयः) जीवनम् (इद्धाग्नयः) प्रकाशिताग्नयः। अग्निविद्याकुशलाः (शम्या) शमु उपशमे-इन्, ङीप्। शान्तिप्रदेन कर्मणा-निघ० २।१ (ये) (सुकृत्यया) शोभनकर्तव्ययुक्तया (सर्वम्) (पणेः) पण व्यवहारे स्तुतौ च-इन्। उद्योगात् (सम्) सम्यक् (अविन्दन्त) अलभन्त (भोजनम्) धननाम-निघ० २।१०। भोजनसाधनं धनान्नादिकम् (अश्वावन्तम्) म० १। प्रशस्ततुरङ्गयुक्तम् (गोमन्तम्) उत्तमधेनुयुक्तम् (आ) समुच्चये (पशुम्) पशुसमूहम् (नरः) नेतारः ॥

    इस भाष्य को एडिट करें
    Top