अथर्ववेद - काण्ड 3/ सूक्त 22/ मन्त्र 3
सूक्त - वसिष्ठः
देवता - बृहस्पतिः, विश्वेदेवाः, वर्चः
छन्दः - पञ्चपदा परानुष्टुब्विराडतिजगती
सूक्तम् - वर्चः प्राप्ति सुक्त
येन॑ ह॒स्ती वर्च॑सा संब॒भूव॒ येन॒ राजा॑ मनु॒ष्ये॑ष्व॒प्स्वन्तः। येन॑ दे॒वा दे॒वता॒मग्र॒ आय॒न्तेन॒ माम॒द्य वर्च॒साग्ने॑ वर्च॒स्विनं॑ कृणु ॥
स्वर सहित पद पाठयेन॑ । ह॒स्ती । वर्च॑सा । स॒म्ऽब॒भूव॑ । येन॑ । राजा॑ । म॒नु॒ष्ये᳡षु । अ॒प्ऽसु । अ॒न्त: । येन॑ । दे॒वा: । दे॒वता॑म् । अग्रे॑ । आय॑न् । तेन॑ । माम् । अ॒द्य । वर्च॑सा । अग्ने॑ । व॒र्च॒स्विन॑म् । कृ॒णु॒ ॥२२.३॥
स्वर रहित मन्त्र
येन हस्ती वर्चसा संबभूव येन राजा मनुष्येष्वप्स्वन्तः। येन देवा देवतामग्र आयन्तेन मामद्य वर्चसाग्ने वर्चस्विनं कृणु ॥
स्वर रहित पद पाठयेन । हस्ती । वर्चसा । सम्ऽबभूव । येन । राजा । मनुष्येषु । अप्ऽसु । अन्त: । येन । देवा: । देवताम् । अग्रे । आयन् । तेन । माम् । अद्य । वर्चसा । अग्ने । वर्चस्विनम् । कृणु ॥२२.३॥
अथर्ववेद - काण्ड » 3; सूक्त » 22; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(हस्ती) म० १। गजः। (वर्चसा) तेजसा। (संबभूव) समर्थो बभूव। (राजा) राजति ईष्टे स राजा। ऐश्वर्यवान् पुरुषः। (मनुष्येषु) अ० ३।४।६। मनु-यत्, षुगागमः। मननशीलेषु। स्थलप्राणिषु, इत्यर्थः। (अप्सु) उदकेषु-निघ० १।१२। अन्तरिक्षे-निघ० १।३। (अन्तः) मध्ये। (देवाः) विजिगीषवो महात्मानः। (देवताम्) देवत्वम्। माहात्म्यम्। (अग्रे) पर्वकाले। (आयन्) इण् गतौ-लङ्। प्राप्नुवन्। (माम्) उपासकम्। (अद्य) अ० १।१।१। अस्मिन् दिने। तत्कालम्। (अग्ने) हे ज्ञानस्वरूप परमात्मन्। (वर्चस्विनम्) तेजस्विनम्। (कृणु) कुरु ॥
इस भाष्य को एडिट करें