अथर्ववेद - काण्ड 3/ सूक्त 22/ मन्त्र 5
सूक्त - वसिष्ठः
देवता - बृहस्पतिः, विश्वेदेवाः, वर्चः
छन्दः - अनुष्टुप्
सूक्तम् - वर्चः प्राप्ति सुक्त
याव॒च्चत॑स्रः प्र॒दिश॒श्चक्षु॒र्याव॑त्समश्नु॒ते। ताव॑त्स॒मैत्वि॑न्द्रि॒यं मयि॒ तद्ध॑स्तिवर्च॒सम् ॥
स्वर सहित पद पाठयाव॑त् । चत॑स्र: । प्र॒ऽदिश॑: । चक्षु॑: । याव॑त् । स॒म्ऽअ॒श्नु॒ते । ताव॑त् । स॒म्ऽऐतु॑ । इ॒न्द्रि॒यम् । मयि॑ । तत् । ह॒स्ति॒ऽव॒र्च॒सम् ॥२२.५॥
स्वर रहित मन्त्र
यावच्चतस्रः प्रदिशश्चक्षुर्यावत्समश्नुते। तावत्समैत्विन्द्रियं मयि तद्धस्तिवर्चसम् ॥
स्वर रहित पद पाठयावत् । चतस्र: । प्रऽदिश: । चक्षु: । यावत् । सम्ऽअश्नुते । तावत् । सम्ऽऐतु । इन्द्रियम् । मयि । तत् । हस्तिऽवर्चसम् ॥२२.५॥
अथर्ववेद - काण्ड » 3; सूक्त » 22; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(चतस्रः) चतुःसंख्याकाः। (प्रदिशः) महादिशः। (चक्षुः) अ० १।३३।४। नेत्रं दर्शनसामर्थ्यम्। (समश्नुते) सम्यग् व्याप्नोति (समैतु) सम्+आ एतु। सम्यग् आगच्छतु। (इन्द्रियम्) अ० १।३५।३। इन्द्र-घञ्। इन्द्रस्य परमैश्वर्ययुक्तस्य लिङ्गम्। परमैश्वर्यम्। (मयि) ईश्वरभक्ते। (तत्) प्रसिद्धम्। (हस्तिवर्चसम्) म० १। गजस्य बलयुक्तम् ॥
इस भाष्य को एडिट करें