अथर्ववेद - काण्ड 4/ सूक्त 18/ मन्त्र 8
सूक्त - शुक्रः
देवता - अपामार्गो वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - अपामार्ग सूक्त
अ॑प॒मृज्य॑ यातु॒धाना॒नप॒ सर्वा॑ अरा॒य्यः॑। अपा॑मार्ग॒ त्वया॑ व॒यं सर्वं॒ तदप॑ मृज्महे ॥
स्वर सहित पद पाठअ॒प॒ऽमृज्य॑ । या॒तु॒ऽधाना॑न् । अप॑ । सर्वा॑: । अ॒रा॒य्य᳡: । अपा॑मार्ग: । त्वया॑ । व॒यम् । सर्व॑म् । तत् । अप॑ । मृ॒ज्म॒हे॒॥१८.८॥
स्वर रहित मन्त्र
अपमृज्य यातुधानानप सर्वा अराय्यः। अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥
स्वर रहित पद पाठअपऽमृज्य । यातुऽधानान् । अप । सर्वा: । अराय्य: । अपामार्ग: । त्वया । वयम् । सर्वम् । तत् । अप । मृज्महे॥१८.८॥
अथर्ववेद - काण्ड » 4; सूक्त » 18; मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८−(अपमृज्य) सम्यक् शोधयित्वा (यातुधानान्) अ० १।७।१। पीडाप्रदान् राक्षसान् (अप) अपमृज्य (सर्वाः) (अराय्यः) म० ७। अरायीन् अलक्ष्मीः। अन्यद् व्याख्यातं सू० १७ म० ६ ॥
इस भाष्य को एडिट करें