अथर्ववेद - काण्ड 4/ सूक्त 19/ मन्त्र 1
सूक्त - शुक्रः
देवता - अपामार्गो वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - अपामार्ग सूक्त
उ॒तो अ॒स्यब॑न्धुकृदु॒तो अ॑सि॒ नु जा॑मि॒कृत्। उ॒तो कृ॑त्या॒कृतः॑ प्र॒जां न॒डमि॒वा च्छि॑न्धि॒ वार्षि॑कम् ॥
स्वर सहित पद पाठउ॒तो इति॑ । अ॒सि॒ । अब॑न्धुऽकृत् । उ॒तो इति॑ । अ॒सि॒ । नु । जा॒मि॒ऽकृत् । उ॒तो इति॑ । कृ॒त्या॒ऽकृत॑: । प्र॒ऽजाम् । न॒डम्ऽइ॑व । आ । छि॒न्धि॒ । वार्षि॑कम् ॥१९.१॥
स्वर रहित मन्त्र
उतो अस्यबन्धुकृदुतो असि नु जामिकृत्। उतो कृत्याकृतः प्रजां नडमिवा च्छिन्धि वार्षिकम् ॥
स्वर रहित पद पाठउतो इति । असि । अबन्धुऽकृत् । उतो इति । असि । नु । जामिऽकृत् । उतो इति । कृत्याऽकृत: । प्रऽजाम् । नडम्ऽइव । आ । छिन्धि । वार्षिकम् ॥१९.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 19; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(उतो) अपि च (असि) (अबन्धुकृत्) कृती छेदने-क्विप्। अबन्धूनां शत्रूणां कर्तकश्छेदकः (नु) अनुनये (जामिकृत्) जामि इति व्याख्यातम्-अ० २।७।२। जामिः, बन्धुः-यथा सायणः-ऋ० १।७५।३। करोतेः क्विप्। बन्धूनां कर्ता सम्पादकः (कृत्याकृतः) हिंसाकर्तॄन् (प्रजाम्) तेषां जनान् भृत्यादीन् च (नडम्) नल बन्धे=पचाद्यच्। लस्य डत्वम्। सुच्छेद्यं तृणविशेषम् (इव) यथा (आ समन्तात् (छिन्धि) भिन्धि। विदारय (वार्षिकम्) छन्दसि ठञ्। पा० ४।३।१९। इति वर्षा-ठञ्। वर्षाकालोद्भवम् ॥
इस भाष्य को एडिट करें