Loading...
अथर्ववेद > काण्ड 4 > सूक्त 19

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 19/ मन्त्र 7
    सूक्त - शुक्रः देवता - अपामार्गो वनस्पतिः छन्दः - अनुष्टुप् सूक्तम् - अपामार्ग सूक्त

    प्र॒त्यङ्हि सं॑ब॒भूवि॑थ प्रती॒चीन॑फल॒स्त्वम्। सर्वा॒न्मच्छ॒पथाँ अधि॒ वरी॑यो यावया व॒धम् ॥

    स्वर सहित पद पाठ

    प्र॒त्यङ् । हि । स॒म्ऽब॒भूवि॑थ । प्र॒ती॒चीन॑ऽफल: । त्वम् । सर्वा॑न् । मत् । श॒पथा॑न् । अधि॑ । वरी॑य: । य॒व॒य॒ । व॒धम् ॥१९.७॥


    स्वर रहित मन्त्र

    प्रत्यङ्हि संबभूविथ प्रतीचीनफलस्त्वम्। सर्वान्मच्छपथाँ अधि वरीयो यावया वधम् ॥

    स्वर रहित पद पाठ

    प्रत्यङ् । हि । सम्ऽबभूविथ । प्रतीचीनऽफल: । त्वम् । सर्वान् । मत् । शपथान् । अधि । वरीय: । यवय । वधम् ॥१९.७॥

    अथर्ववेद - काण्ड » 4; सूक्त » 19; मन्त्र » 7

    टिप्पणीः - ७−(प्रत्यङ्) प्रति+अञ्चु-क्विन्। प्रत्यञ्चनः। प्रतिगतः। अभिमुखः सन् (हि) एव (संबभूविथ) सम्यग् विद्यमानो बभूविथ (प्रतीचीनफलः) प्रत्यच्-ख प्रत्ययः, ञिफला विशरणे-अच्। प्रत्यक् प्रतिगमनं तत्र भवानां फलं विशरणं नाशनं यस्मात् स तथाभूतः। प्रतिगतिभवानां शत्रूणां विदारकः (त्वम्) राजन् (सर्वान्) (मत्) मत्तः (शपथान्) शापान्। शत्रुकृतानि दुर्वाक्याणि (अधि) अधिकृत्य (वरीयः) उरु-ईयसुन्। उरुतरं विस्तीर्णतरम् (यवय) पृथक् कुरु (वधम्) हननसाधनम्। आयुधम् ॥

    इस भाष्य को एडिट करें
    Top