Loading...
अथर्ववेद > काण्ड 4 > सूक्त 21

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 21/ मन्त्र 1
    सूक्त - ब्रह्मा देवता - गोसमूहः छन्दः - त्रिष्टुप् सूक्तम् - गोसमूह सूक्त

    आ गावो॑ अग्मन्नु॒त भ॒द्रम॑क्र॒न्त्सीद॑न्तु गो॒ष्ठे र॒णय॑न्त्व॒स्मे। प्र॒जाव॑तीः पुरु॒रूपा॑ इ॒ह स्यु॒रिन्द्रा॑य पू॒र्वीरु॒षसो॒ दुहा॑नाः ॥

    स्वर सहित पद पाठ

    आ । गाव॑: । अ॒ग्म॒न् । उ॒त । भ॒द्रम् । अ॒क्र॒न् । सीद॑न्तु । गो॒ऽस्थे । र॒णय॑न्तु । अ॒स्मे इति॑ । प्र॒जाऽव॑ती: । पु॒रु॒ऽरूषा॑: । इ॒ह । स्यु॒: । इन्द्रा॑य । पू॒र्वी: । उ॒षस॑: । दुहा॑ना: ॥२१.१॥


    स्वर रहित मन्त्र

    आ गावो अग्मन्नुत भद्रमक्रन्त्सीदन्तु गोष्ठे रणयन्त्वस्मे। प्रजावतीः पुरुरूपा इह स्युरिन्द्राय पूर्वीरुषसो दुहानाः ॥

    स्वर रहित पद पाठ

    आ । गाव: । अग्मन् । उत । भद्रम् । अक्रन् । सीदन्तु । गोऽस्थे । रणयन्तु । अस्मे इति । प्रजाऽवती: । पुरुऽरूषा: । इह । स्यु: । इन्द्राय । पूर्वी: । उषस: । दुहाना: ॥२१.१॥

    अथर्ववेद - काण्ड » 4; सूक्त » 21; मन्त्र » 1

    टिप्पणीः - १−(गावः) गमेर्डोः। उ० २।६७। इति गम्लृ गतौ गाने वा-डो। गौरिति वाङ्नाम-निघ० १।११। प्रापणीया गानयोग्या वा वाचः। विद्याः (आ अग्मन्) मन्त्रे घसह्वर०। पा० २।४।८०। इति लुङि च्लेर्लुक्। अगमन् आगताः प्राप्ता अभवन् (उत) अपि च (भद्रम्) कल्याणम् (अक्रन्) पूर्ववत् लुङ्। अकार्षुः (सीदन्तु) षद्लृ गतौ। ताः प्राप्नुवन्तु (गोष्ठे) गावो वाचस्तिष्ठन्ति यत्र। विद्यासमाजे (रणयन्तु) रणाय रमणीयाय संग्रामाय-निरु० १०।४७। इति निर्देशात् मस्य णः। रमयन्तु सुखयन्तु (अस्मे) विभक्तेः शे। अस्मान् (प्रजावतीः) प्रजावत्यः। प्रशस्तजनवत्यः (पुरुरूपाः) बहुरूपाः। नानाविधाः (इह) अस्मिन् गोष्ठे (स्युः) भवेयुः (इन्द्राय) परमैश्वर्ययुक्ताय पुरुषाय (पूर्वीः) पुरु बहुनाम-निघ० ३।१। ततो ङीप्। पूर्वीः। बह्वीः (उषसः) कालाध्वनोरत्यन्तसंयोगे। पा० २।३।५। इति द्वितीया। उषः−कालोपलक्षितान् दिवसान्। सर्वकालम् (दुहानाः) दुह प्रपूरणे-शानच्। कामान् प्रपूरयन्त्यः ॥

    इस भाष्य को एडिट करें
    Top