अथर्ववेद - काण्ड 4/ सूक्त 21/ मन्त्र 6
यू॒यं गा॑वो मेदयथा कृ॒शं चि॑दश्री॒रं चि॑त्कृणुथा सु॒प्रती॑कम्। भ॒द्रं गृ॒हं कृ॑णुथ भद्रवाचो बृ॒हद्वो॒ वय॑ उच्यते स॒भासु॑ ॥
स्वर सहित पद पाठयू॒यम् । गा॒व: । मे॒द॒य॒थ॒ । कृ॒शन् । चि॒त् । अ॒श्री॒रम् । चि॒त् । कृ॒णु॒थ॒ । सु॒ऽप्रती॑कम् । भ॒द्रम् । गृ॒हम् । कृ॒णु॒थ॒ । भ॒द्र॒ऽवा॒च॒: । बृ॒हत् । व॒: । वय॑: । उ॒च्य॒ते॒ । स॒भासु॑ ॥२१.६॥
स्वर रहित मन्त्र
यूयं गावो मेदयथा कृशं चिदश्रीरं चित्कृणुथा सुप्रतीकम्। भद्रं गृहं कृणुथ भद्रवाचो बृहद्वो वय उच्यते सभासु ॥
स्वर रहित पद पाठयूयम् । गाव: । मेदयथ । कृशन् । चित् । अश्रीरम् । चित् । कृणुथ । सुऽप्रतीकम् । भद्रम् । गृहम् । कृणुथ । भद्रऽवाच: । बृहत् । व: । वय: । उच्यते । सभासु ॥२१.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 21; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(यूयम्) (गावः) हे विद्याः (मेदयथ) ञिमिदा स्नेहने-णिच्। स्नेहयथ। आप्याययथ (कृशम्) अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः। पा० ८।२।५५। इति कृश तनूकरणे-क्तप्रत्ययान्तो निपात्यते। क्षीणं निर्बलम् (चित्) अपि (अश्रीरम्) रो मत्वर्थीयः। अश्रीयुक्तम्। निर्धनम्। अमङ्गलम् (कृणुथ) कुरुथ (सुप्रतीकम्) अलीकादयश्च। उ० ४।२५। इति सु+प्र+इण् गतौ-कीकन्, धातोस्तुट्च। शोभनप्रतीतिवन्तम्। शोभनावयवम्। सुरूपम् (भद्रम्) कल्याणकरम् (गृहम्) गेहम् (भद्रवाचः) हे शोभना वाचो विद्याः (बृहत्) महत् (वः) युष्माकम् (वयः) अ० २।१०।३। यौवनम्। बलम् (उच्यते) प्रशस्यते। (सभासु) सह+भा दीप्तौ-अङ्, टाप्, सहस्य सः। विद्वद्भिः प्रकाशमानासु परिषत्सु ॥
इस भाष्य को एडिट करें