Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 140/ मन्त्र 3
सूक्त - अथर्वा
देवता - ब्रह्मणस्पतिः
छन्दः - आस्तारपङ्क्तिः
सूक्तम् - सुमङ्गलदन्त सूक्त
उप॑हूतौ स॒युजौ॑ स्यो॒नौ दन्तौ॑ सुम॒ङ्गलौ॑। अ॒न्यत्र॑ वां घो॒रं त॒न्वः परै॑तु दन्तौ॒ मा हिं॑सिष्टं पि॒तरं॑ मा॒तरं॑ च ॥
स्वर सहित पद पाठउप॑ऽहूतौ । स॒ऽयुजौ॑ । स्यो॒नौ । दन्तौ॑ । सु॒ऽम॒ङ्गलौ॑ । अ॒न्यत्र॑ । वा॒म् । घो॒रम् । त॒न्व᳡: । परा॑ । ए॒तु॒ । द॒न्तौ॒ । मा । हिं॒सि॒ष्ट॒म् । पि॒तर॑म् । मा॒तर॑म् । च॒ ॥१४०.३॥
स्वर रहित मन्त्र
उपहूतौ सयुजौ स्योनौ दन्तौ सुमङ्गलौ। अन्यत्र वां घोरं तन्वः परैतु दन्तौ मा हिंसिष्टं पितरं मातरं च ॥
स्वर रहित पद पाठउपऽहूतौ । सऽयुजौ । स्योनौ । दन्तौ । सुऽमङ्गलौ । अन्यत्र । वाम् । घोरम् । तन्व: । परा । एतु । दन्तौ । मा । हिंसिष्टम् । पितरम् । मातरम् । च ॥१४०.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 140; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(उपहूतौ) ह्वेञ् स्पर्धायां शब्दे च−क्त। परस्परस्पर्धायुक्तौ (सयुजौ) समानं युञ्जानौ (स्योनौ) सुखकरौ (दन्तौ) उभयतो दन्तगणौ (सुमङ्गलौ) सुमङ्गलकरौ (अन्यत्र) पृथक् स्थाने (वाम्) युवयोः (घोरम्) क्रूरं कर्म (तन्वः) शिशुशरीरात् (परा) (दूरे) (एतु) गच्छतु। अन्यत्पूर्ववत्−म० २ ॥
इस भाष्य को एडिट करें