Loading...
अथर्ववेद > काण्ड 6 > सूक्त 141

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 141/ मन्त्र 1
    सूक्त - विश्वामित्र देवता - अश्विनौ छन्दः - अनुष्टुप् सूक्तम् - गोकर्णलक्ष्यकरण सूक्त

    वा॒युरे॑नाः स॒माक॑र॒त्त्वष्टा॒ पोषा॑य ध्रियताम्। इन्द्र॑ आभ्यो॒ अधि॑ ब्रवद्रु॒द्रो भू॒म्ने चि॑कित्सतु ॥

    स्वर सहित पद पाठ

    वा॒यु: । ए॒ना॒: । स॒म्ऽआक॑रत् । त्वष्टा॑ । पोषा॑य । ध्रि॒य॒ता॒म् । इन्द्र॑: । आ॒भ्य॒: । अधि॑ । ब्र॒व॒त् । रु॒द्र: । भू॒म्ने । चि॒कि॒त्स॒तु॒ ॥१४१.१॥


    स्वर रहित मन्त्र

    वायुरेनाः समाकरत्त्वष्टा पोषाय ध्रियताम्। इन्द्र आभ्यो अधि ब्रवद्रुद्रो भूम्ने चिकित्सतु ॥

    स्वर रहित पद पाठ

    वायु: । एना: । सम्ऽआकरत् । त्वष्टा । पोषाय । ध्रियताम् । इन्द्र: । आभ्य: । अधि । ब्रवत् । रुद्र: । भूम्ने । चिकित्सतु ॥१४१.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 141; मन्त्र » 1

    टिप्पणीः - १−(वायुः) शीघ्रगाम्याचार्यः (एनाः) प्रजाः। विद्यार्थिगणान् (समाकरत्) करोतेर्लेट्। संयोजयेत् (त्वष्टा) अ० २।५।६। त्वक्षू तनूकरणे−तृन्। सूक्ष्मदर्शी (पोषाय) मानसिकशारीरिकपोषणाय (ध्रियताम्) धृङ् अवस्थाने। स्थिरो भवतु (इन्द्रः) परमैश्वर्यवानाचार्यः (आभ्यः) प्रजाभ्यः (अधि) अधिकमनुग्रहपूर्वकम् (ब्रवत्) वदेत् (रुद्रः) अ० २।२७।६। रुत् ज्ञानं राति ददातीति यः ज्ञानदाता (भूम्ने) अ० ५।२८।३। बहुत्वाय। वर्धनाय (चिकित्सतु) कित व्याधिप्रतीकारे निग्रहे अपनयने नाशने संशये च। गुप्तिज्किद्भ्यः सन्। पा० ३।१।५। इति कितेः सन्। निगृह्णातु। शास्तु ॥

    इस भाष्य को एडिट करें
    Top