Loading...
अथर्ववेद > काण्ड 7 > सूक्त 15

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 15/ मन्त्र 1
    सूक्त - भृगुः देवता - सविता छन्दः - त्रिष्टुप् सूक्तम् - सविता सूक्त

    तां स॑वितः स॒त्यस॑वां सुचि॒त्रामाहं वृ॑णे सुम॒तिं वि॒श्ववा॑राम्। याम॑स्य॒ कण्वो॒ अदु॑ह॒त्प्रपी॑नां स॒हस्र॑धारां महि॒षो भगा॑य ॥

    स्वर सहित पद पाठ

    ताम् । स॒वि॒त॒: । स॒त्यऽस॑वाम् । सु॒ऽचि॒त्राम् । आ । अ॒हम् । वृ॒णे॒ । सु॒ऽम॒तिम् । वि॒श्वऽवा॑राम् । याम् । अ॒स्य॒ । कण्व॑: । अदु॑हत् । प्रऽपी॑नाम् । स॒हस्र॑ऽधाराम् । म॒हि॒ष: । भगा॑य ॥१६.१॥


    स्वर रहित मन्त्र

    तां सवितः सत्यसवां सुचित्रामाहं वृणे सुमतिं विश्ववाराम्। यामस्य कण्वो अदुहत्प्रपीनां सहस्रधारां महिषो भगाय ॥

    स्वर रहित पद पाठ

    ताम् । सवित: । सत्यऽसवाम् । सुऽचित्राम् । आ । अहम् । वृणे । सुऽमतिम् । विश्वऽवाराम् । याम् । अस्य । कण्व: । अदुहत् । प्रऽपीनाम् । सहस्रऽधाराम् । महिष: । भगाय ॥१६.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 15; मन्त्र » 1

    टिप्पणीः - १−(ताम्) (सवितः) सर्वैश्वर्यन्नाचार्य (सत्यसवाम्) सत्यैश्वर्ययुक्ताम् (सुचित्राम्) अमिचिमि०। उ० ४।१६४। चिञ् चयने−क्त्र। सुचयनीयाम्। महाविचित्रविषयाम् (आ) अङ्गीकारे (अहम्) स्त्री पुरुषो वा (वृणे) याचे (सुमतिम्) शोभनां यथाविषयां प्रज्ञाम् (विश्ववाराम्) सर्वैर्वरणीयाम् (याम्) सुमतिम् (अस्य) प्रसिद्धस्य जगतः (कण्वः) अ० २।३२।३। मेधावी निघ० ३।१५। (अदुहत्) परिपूरितवान् (प्रपीनाम्) प्यायतेः-क्त, पीभावः। प्रवृद्धाम् (सहस्रधाराम्) सहस्रमसंख्यानर्थान् धरति ताम् (महिषः) अ० २।२५।४। पूजनीयः परमेश्वरः (भगाय) ऐश्वर्याय ॥

    इस भाष्य को एडिट करें
    Top