Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 33/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - मरुद्गणः, पूषा, बृहस्पतिः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - दीर्घायु सूक्त
सं मा॑ सिञ्चन्तु म॒रुतः॒ सं पू॑ष॒ सं बृह॒स्पतिः॑। सं मा॒यम॒ग्निः सि॑ञ्चतु प्र॒जया॑ च॒ धने॑न च दी॒र्घमायुः॑ कृणोतु मे ॥
स्वर सहित पद पाठसम् । मा॒ । सि॒ञ्च॒न्तु॒ । म॒रुत॑: । सम् । पू॒षा । सम् । बृ॒ह॒स्पति॑: । सम् । मा॒ । अ॒यम् । अ॒ग्नि: । सि॒ञ्च॒न्तु॒ । प्र॒ऽजया॑ । च॒ । धने॑न। च॒ । दी॒र्घम् । आयु॑: । कृ॒णो॒तु॒ । मे॒ ॥३४.१॥
स्वर रहित मन्त्र
सं मा सिञ्चन्तु मरुतः सं पूष सं बृहस्पतिः। सं मायमग्निः सिञ्चतु प्रजया च धनेन च दीर्घमायुः कृणोतु मे ॥
स्वर रहित पद पाठसम् । मा । सिञ्चन्तु । मरुत: । सम् । पूषा । सम् । बृहस्पति: । सम् । मा । अयम् । अग्नि: । सिञ्चन्तु । प्रऽजया । च । धनेन। च । दीर्घम् । आयु: । कृणोतु । मे ॥३४.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 33; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(सम्) सम्यक् (मा) माम् (सिञ्चन्तु) आर्द्रीकुर्वन्तु। वर्धयन्तु (मरुतः) वायुगणाः (पूषा) पृथिवी-निघ० १।१। (बृहस्पतिः) बृहतां पालकः सूर्यो मेघो वा (मा) (अयम्) (अग्निः) जाठराग्निः (सिञ्चतु) (प्रजया) सन्तानभृत्यादिना (धनेन) वित्तेन। अन्यत्पूर्ववत् ॥
इस भाष्य को एडिट करें