Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 8/ मन्त्र 6
    सूक्त - भृग्वङ्गिराः देवता - सर्वशीर्षामयापाकरणम् छन्दः - अनुष्टुप् सूक्तम् - यक्ष्मनिवारण सूक्त

    यस्य॑ भी॒मः प्र॑तीका॒श उ॑द्वे॒पय॑ति॒ पूरु॑षम्। त॒क्मानं॑ वि॒श्वशा॑रदं ब॒हिर्निर्म॑न्त्रयामहे ॥

    स्वर सहित पद पाठ

    यस्य॑ । भी॒म: । प्र॒ति॒ऽका॒श: । उ॒त्ऽवे॒पय॑ति । पुरु॑षम् । त॒क्मान॑म् । वि॒श्वऽशा॑रदम् । ब॒हि: । नि: । म॒न्त्र॒या॒म॒हे॒ ॥१३.६॥


    स्वर रहित मन्त्र

    यस्य भीमः प्रतीकाश उद्वेपयति पूरुषम्। तक्मानं विश्वशारदं बहिर्निर्मन्त्रयामहे ॥

    स्वर रहित पद पाठ

    यस्य । भीम: । प्रतिऽकाश: । उत्ऽवेपयति । पुरुषम् । तक्मानम् । विश्वऽशारदम् । बहि: । नि: । मन्त्रयामहे ॥१३.६॥

    अथर्ववेद - काण्ड » 9; सूक्त » 8; मन्त्र » 6

    टिप्पणीः - ६−(यस्य) तक्मनः (भीमः) भयानकः (प्रतिकाशः) काशृ दीप्तौ-घञ्। दर्शनम्। स्वरूपम् (उद्वेपयति) कम्पायते (पुरुषम्) (तक्मानम्) अ० १।२५।१। कृच्छ्रजीवनकारकं ज्वरम् (विश्वशारदम्) शार दौर्बल्ये-अच्, यद्वा शॄ हिंसायाम्-घञ्। सर्वस्मिन् शरीरे शरं कर्बूरवर्णं ददातीति तम्। अन्यत् पूर्ववत् ॥

    इस भाष्य को एडिट करें
    Top