Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 8/ मन्त्र 1
    सूक्त - भृग्वङ्गिराः देवता - सर्वशीर्षामयापाकरणम् छन्दः - अनुष्टुप् सूक्तम् - यक्ष्मनिवारण सूक्त

    शीर्ष॒क्तिं शी॑र्षाम॒यं क॑र्णशू॒लं वि॑लोहि॒तम्। सर्वं॑ शीर्ष॒ण्यं ते॒ रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ॥

    स्वर सहित पद पाठ

    शी॒र्ष॒क्तिम् । शी॒र्ष॒ऽआ॒म॒यम् । क॒र्ण॒ऽशू॒लम् । वि॒ऽलो॒हि॒तम् । सर्व॑म् । शी॒र्ष॒ण्य᳡म् । ते॒ । रोग॑म् । ब॒हि: । नि: । म॒न्त्र॒या॒म॒हे॒ ॥१३.१॥


    स्वर रहित मन्त्र

    शीर्षक्तिं शीर्षामयं कर्णशूलं विलोहितम्। सर्वं शीर्षण्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥

    स्वर रहित पद पाठ

    शीर्षक्तिम् । शीर्षऽआमयम् । कर्णऽशूलम् । विऽलोहितम् । सर्वम् । शीर्षण्यम् । ते । रोगम् । बहि: । नि: । मन्त्रयामहे ॥१३.१॥

    अथर्ववेद - काण्ड » 9; सूक्त » 8; मन्त्र » 1

    टिप्पणीः - १−(शीर्षक्तिम्) अ० १।१२।३। शिरःपीडाम् (शीर्षामयम्) शिरोरोगम् (कर्णशूलम्) शूल रोगे-अच्। श्रोत्ररोगम् (विलोहितम्) विकृतरक्तम् (सर्वम्) समस्तम् (शीर्षण्यम्) अ० २।३१।४। शिरसि भवम् (ते) तव (रोगम्) व्याधिम् (बहिः) बहिर्भावे (निः मन्त्रयामहे) मन्त्रा मननात्-निरु० ७।१२। सर्वधातुभ्यः ष्ट्रन्। उ० ४।१५९। मन ज्ञाने−ष्ट्रन्। मन्त्रो मननम्। ततो नामधातुरूपम्। मननेन निः सारयामः ॥

    इस भाष्य को एडिट करें
    Top