अथर्ववेद - काण्ड 4/ सूक्त 22/ मन्त्र 3
सूक्त - वसिष्ठः, अथर्वा वा
देवता - इन्द्रः, क्षत्रियो राजा
छन्दः - त्रिष्टुप्
सूक्तम् - अमित्रक्षयण सूक्त
अ॒यम॑स्तु॒ धन॑पति॒र्धना॑नाम॒यं वि॒शां वि॒श्पति॑रस्तु॒ राजा॑। अ॒स्मिन्नि॑न्द्र॒ महि॒ वर्चां॑सि धेह्यव॒र्चसं॑ कृणुहि॒ शत्रु॑मस्य ॥
स्वर सहित पद पाठअ॒यम् । अ॒स्तु॒ । धन॑ऽपति: । धना॑नाम् । अ॒यम् । वि॒शाम् । वि॒श्पति॑: । अ॒स्तु॒ । राजा॑ । अ॒स्मिन् । इ॒न्द्र॒ । महि॑ । वर्चां॑सि । धे॒हि॒ । अ॒व॒र्चस॑म् । कृ॒णु॒हि॒ । शत्रु॑म् । अ॒स्य॒ ॥२२.३॥
स्वर रहित मन्त्र
अयमस्तु धनपतिर्धनानामयं विशां विश्पतिरस्तु राजा। अस्मिन्निन्द्र महि वर्चांसि धेह्यवर्चसं कृणुहि शत्रुमस्य ॥
स्वर रहित पद पाठअयम् । अस्तु । धनऽपति: । धनानाम् । अयम् । विशाम् । विश्पति: । अस्तु । राजा । अस्मिन् । इन्द्र । महि । वर्चांसि । धेहि । अवर्चसम् । कृणुहि । शत्रुम् । अस्य ॥२२.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 22; मन्त्र » 3
विषय - धनानां धनपति: विशां विश्पतिः
पदार्थ -
१. (अयम्) = यह (राजा) = शासक (धनानां धनपति:) = धनों का खूब ही स्वामी (अस्तु) = हो। इसका कोश खुब बढ़ा हुआ हो। (अयम्) = यह (विशाम्) = प्रजाओं का (विश्पतिः अस्तु) = उत्तम प्रजापालक हो। २. हे (इन्द्र) = सर्वशक्तिमान् प्रभो। (अस्मिन्) = इस राजा में (महि) = महत्त्वपूर्ण (वर्चासि) = शक्तियों को (धेहि) धारण कीजिए। (अस्य) = इस राजा के (शत्रुम्) = शत्रु को (अवर्चसम् कृणुहि) = नष्ट शक्तिवाला कीजिए।
भावार्थ -
राजा का कोश खुब बढ़ा हुआ हो। यह प्रजापालन को मुख्य कार्य जाने। यह शक्तिशाली हो, शत्रुओं को निस्तेज करके यह प्रजा का रक्षण करे।
इस भाष्य को एडिट करें