Loading...
अथर्ववेद > काण्ड 10 > सूक्त 7

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 32
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - उपरिष्टाद्विराड्बृहती सूक्तम् - सर्वाधारवर्णन सूक्त

    यस्य॒ भूमिः॑ प्र॒मान्तरि॑क्षमु॒तोदर॑म्। दिवं॒ यश्च॒क्रे मू॒र्धानं॒ तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑ ॥

    स्वर सहित पद पाठ

    यस्य॑ । भूमि॑: । प्र॒ऽमा । अ॒न्तरि॑क्षम् । उ॒त । उ॒दर॑म् । दिव॑म् । य: । च॒क्रे । मू॒र्धान॑म् । तस्मै॑ । ज्ये॒ष्ठाय॑ । ब्रह्म॑णे । नम॑: ॥७.३२॥


    स्वर रहित मन्त्र

    यस्य भूमिः प्रमान्तरिक्षमुतोदरम्। दिवं यश्चक्रे मूर्धानं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥

    स्वर रहित पद पाठ

    यस्य । भूमि: । प्रऽमा । अन्तरिक्षम् । उत । उदरम् । दिवम् । य: । चक्रे । मूर्धानम् । तस्मै । ज्येष्ठाय । ब्रह्मणे । नम: ॥७.३२॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 32

    व्याख्यानम् -

    ( यस्य भूमिः प्रमा ) यस्य भूमिः प्रमा यथार्थविज्ञानसाधनं पादाविवास्ति, ( अन्तरिक्षम् उत उदरम् ) अन्तरिक्षं यस्योदरतुल्यमस्ति, [दिवं यश्चक्रे मूर्द्धानम्] यश्च सर्वस्मादूर्ध्वं सूर्यरश्मिप्रकाशमयमाकाशं दिवं मूर्धानं शिरोवच्चक्रे कृतवानस्ति, तस्मै ( ज्येष्ठाय ब्रह्मणे नमः )

    इस भाष्य को एडिट करें
    Top