Sidebar
अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 34
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - अनुष्टुप्
सूक्तम् - सर्वाधारवर्णन सूक्त
यस्य॒ वातः॑ प्राणापा॒नौ चक्षु॒रङ्गि॑र॒सोऽभ॑वन्। दिशो॒ यश्च॒क्रे प्र॒ज्ञानी॒स्तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑ ॥
स्वर सहित पद पाठयस्य॑ । वात॑: । प्रा॒णा॒पा॒नौ । चक्षु॑: । अङ्गि॑रस: । अभ॑वन् । दिश॑: । य: । च॒क्रे । प्र॒ऽज्ञानी॑: । तस्मै॑ । ज्ये॒ष्ठाय॑ । ब्रह्म॑णे । नम॑: ॥७.३४॥
स्वर रहित मन्त्र
यस्य वातः प्राणापानौ चक्षुरङ्गिरसोऽभवन्। दिशो यश्चक्रे प्रज्ञानीस्तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥
स्वर रहित पद पाठयस्य । वात: । प्राणापानौ । चक्षु: । अङ्गिरस: । अभवन् । दिश: । य: । चक्रे । प्रऽज्ञानी: । तस्मै । ज्येष्ठाय । ब्रह्मणे । नम: ॥७.३४॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 34
विषयः - ईश्वरविषयः
व्याख्यानम् -
( यस्य वातः प्राणापानौ ) वातः समष्टिर्वायुर्यस्य प्राणापानाविवास्ति, ( अङ्गिरसः ) ‘अङ्गिरा अङ्गारा अङ्कना इति’ [ निरु॰३.१७ ] प्रकाशकाः किरणाः [ चक्षुः अभवन् ] चक्षुषी इव भवतः, [ दिशो यश्चक्रे प्रज्ञानीः ] यो दिशः प्रज्ञानीः प्रज्ञापिनीर्व्यवहारसाधिकाश्चक्रे, ( तस्मै ज्येष्ठाय ब्रह्मणे नमः ) तस्मै ह्यनन्तविद्याय ब्रह्मणे महते सततं नमोऽस्तु।
इस भाष्य को एडिट करें