ऋग्वेद - मण्डल 10/ सूक्त 105/ मन्त्र 4
ऋषिः - कौत्सः सुमित्रो दुर्मित्रो वा
देवता - इन्द्र:
छन्दः - निचृदुष्णिक्
स्वरः - ऋषभः
सचा॒योरिन्द्र॒श्चर्कृ॑ष॒ आँ उ॑पान॒सः स॑प॒र्यन् । न॒दयो॒र्विव्र॑तयो॒: शूर॒ इन्द्र॑: ॥
स्वर सहित पद पाठसचा॑ । आ॒योः । इन्द्रः॑ । चर्कृ॑षे । आ । उ॒पा॒न॒सः । स॒प॒र्यन् । न॒दयोः॑ । विऽव्र॑तयोः । शूरः॑ । इन्द्रः॑ ॥
स्वर रहित मन्त्र
सचायोरिन्द्रश्चर्कृष आँ उपानसः सपर्यन् । नदयोर्विव्रतयो: शूर इन्द्र: ॥
स्वर रहित पद पाठसचा । आयोः । इन्द्रः । चर्कृषे । आ । उपानसः । सपर्यन् । नदयोः । विऽव्रतयोः । शूरः । इन्द्रः ॥ १०.१०५.४
ऋग्वेद - मण्डल » 10; सूक्त » 105; मन्त्र » 4
अष्टक » 8; अध्याय » 5; वर्ग » 26; मन्त्र » 4
अष्टक » 8; अध्याय » 5; वर्ग » 26; मन्त्र » 4
पदार्थः -
(इन्द्रः) ऐश्वर्यवान् परमात्मा (आयोः) स्तोतुर्मनुष्यस्य “आयुर्मनुष्यनाम” [निघ० २।३] (उपानसः) अनसः समीपः प्राणवत आत्मनः समीपं वर्त्तमानः (सपर्यन्) सेव्यमानः सन् “कर्मणि कर्तृप्रत्ययः’ (चर्कृषे) पुनः-पुनः दोषशोधनाय (विव्रतयोः-नदयोः) विविधकर्मवतोः-अध्यात्मज्ञानस्योपदेशकश्रोत्रोः (शूरः-इन्द्रः) प्रगतिप्रदः “शूरः शक्तेर्गतिकर्मणः” [निरु० ३।१३] परमात्माऽस्ति ॥४॥