ऋग्वेद - मण्डल 10/ सूक्त 105/ मन्त्र 5
ऋषिः - कौत्सः सुमित्रो दुर्मित्रो वा
देवता - इन्द्र:
छन्दः - विराडुष्निक्
स्वरः - ऋषभः
अधि॒ यस्त॒स्थौ केश॑वन्ता॒ व्यच॑स्वन्ता॒ न पु॒ष्ट्यै । व॒नोति॒ शिप्रा॑भ्यां शि॒प्रिणी॑वान् ॥
स्वर सहित पद पाठअधि॑ । यः । त॒स्थौ । केष॑ऽवन्ता । व्यच॑स्वन्ता । न । पु॒ष्ट्यै । व॒नोति॑ । शिप्रा॑भ्याम् । शि॒प्रिणी॑ऽवान् ॥
स्वर रहित मन्त्र
अधि यस्तस्थौ केशवन्ता व्यचस्वन्ता न पुष्ट्यै । वनोति शिप्राभ्यां शिप्रिणीवान् ॥
स्वर रहित पद पाठअधि । यः । तस्थौ । केषऽवन्ता । व्यचस्वन्ता । न । पुष्ट्यै । वनोति । शिप्राभ्याम् । शिप्रिणीऽवान् ॥ १०.१०५.५
ऋग्वेद - मण्डल » 10; सूक्त » 105; मन्त्र » 5
अष्टक » 8; अध्याय » 5; वर्ग » 26; मन्त्र » 5
अष्टक » 8; अध्याय » 5; वर्ग » 26; मन्त्र » 5
पदार्थः -
(यः) यः खलु परमात्मा (व्यचस्वन्ता-केशवन्ता-न) व्यक्तिकरण-धर्मवन्तौ रश्मिवन्तौ सूर्याचन्द्रमसाविव-उत्पादनधारणधर्मौ (अधितस्थौ) अधितिष्ठति (पुष्ट्यै) संसारपोषणाय (शिप्राभ्याम्-शिप्रिणीवान्) ताभ्यां व्यापनशीलाभ्यां व्यापिनीशक्तिमान् संसारं व्याप्नोति ॥५॥