ऋग्वेद - मण्डल 10/ सूक्त 105/ मन्त्र 6
ऋषिः - कौत्सः सुमित्रो दुर्मित्रो वा
देवता - इन्द्र:
छन्दः - विराडुष्निक्
स्वरः - ऋषभः
प्रास्तौ॑दृ॒ष्वौजा॑ ऋ॒ष्वेभि॑स्त॒तक्ष॒ शूर॒: शव॑सा । ऋ॒भुर्न क्रतु॑भिर्मात॒रिश्वा॑ ॥
स्वर सहित पद पाठप्र । अ॒स्तौ॒त् । ऋ॒ष्वऽओ॑जाः॒ । ऋ॒ष्वेभिः॑ । त॒तक्ष॑ । शूरः॑ । शव॑सा । ऋ॒भुः । न । क्रतु॑ऽभिः । मा॒त॒रिश्वा॑ ॥
स्वर रहित मन्त्र
प्रास्तौदृष्वौजा ऋष्वेभिस्ततक्ष शूर: शवसा । ऋभुर्न क्रतुभिर्मातरिश्वा ॥
स्वर रहित पद पाठप्र । अस्तौत् । ऋष्वऽओजाः । ऋष्वेभिः । ततक्ष । शूरः । शवसा । ऋभुः । न । क्रतुऽभिः । मातरिश्वा ॥ १०.१०५.६
ऋग्वेद - मण्डल » 10; सूक्त » 105; मन्त्र » 6
अष्टक » 8; अध्याय » 5; वर्ग » 27; मन्त्र » 1
अष्टक » 8; अध्याय » 5; वर्ग » 27; मन्त्र » 1
पदार्थः -
(ऋष्वौजाः) महौजस्वी “ऋष्वः-महन्नाम” [निघ० ३।३] (ऋष्वेभिः) महद्गुणैस्तस्य स्तुतिकर्त्ता (प्र अस्तौत्) प्रकृष्टं स्तौति स च परमात्मा (शूरः-शवसा ततक्ष) विक्रान्तो बलेन एतज्जगत्तक्षति करोति “तक्षति करोतिकर्मा” [निरु० ४।१९] (ऋभुः-न क्रतुभिः-मातरिश्वा) यथा कश्चिच्छिल्पी रथं तक्षति करोति-ऋभू रथस्याङ्गानि सन्दधत् परुषा परुः” कर्मभिः सोऽन्तरिक्षे महाकाशे व्याप्नुवन् सन् जगत् करोति “मातरिश्वा मातर्यन्तरिक्षे श्वसिति” [निरु० ७।२६] ॥६॥