ऋग्वेद - मण्डल 10/ सूक्त 11/ मन्त्र 2
रप॑द्गन्ध॒र्वीरप्या॑ च॒ योष॑णा न॒दस्य॑ ना॒दे परि॑ पातु मे॒ मन॑: । इ॒ष्टस्य॒ मध्ये॒ अदि॑ति॒र्नि धा॑तु नो॒ भ्राता॑ नो ज्ये॒ष्ठः प्र॑थ॒मो वि वो॑चति ॥
स्वर सहित पद पाठरप॑त् । ग॒न्ध॒र्वीः । अप्या॑ । च॒ । योष॑णा । न॒दस्य॑ । ना॒दे । परि॑ । पा॒तु॒ । मे॒ । मनः॑ । इ॒ष्टस्य॑ । मध्ये॑ । अदि॑तिः । नि । धा॒तु॒ । नः॒ । भ्राता॑ । नः॒ । ज्ये॒ष्ठः । प्र॒थ॒मः । वि । वो॒च॒ति॒ ॥
स्वर रहित मन्त्र
रपद्गन्धर्वीरप्या च योषणा नदस्य नादे परि पातु मे मन: । इष्टस्य मध्ये अदितिर्नि धातु नो भ्राता नो ज्येष्ठः प्रथमो वि वोचति ॥
स्वर रहित पद पाठरपत् । गन्धर्वीः । अप्या । च । योषणा । नदस्य । नादे । परि । पातु । मे । मनः । इष्टस्य । मध्ये । अदितिः । नि । धातु । नः । भ्राता । नः । ज्येष्ठः । प्रथमः । वि । वोचति ॥ १०.११.२
ऋग्वेद - मण्डल » 10; सूक्त » 11; मन्त्र » 2
अष्टक » 7; अध्याय » 6; वर्ग » 9; मन्त्र » 2
अष्टक » 7; अध्याय » 6; वर्ग » 9; मन्त्र » 2
पदार्थः -
(गन्धर्वीः) सुखवृष्टिप्रसङ्गे मानसी वृत्तिः “मनो गन्धर्वः” [श०९।४।१।१२] यद्वा गां पृथिवीं धारयति स गन्धर्वः-सूर्यः [श०८।४।१।८] राजा वा तच्छक्तिः (अप्या) आपनशीला-व्यापनशीला, अन्तरिक्षभवा विद्युत् “आपः-अन्तरिक्षनाम” [निघ०१।३] (च) तथा (योषणा) मिश्रणशीला विषये यद्वा राष्ट्रे मेघे वा (रपत्) परमात्मानं स्तौति, राजानं राजनीतिं घोषयति, गर्जति (नदस्य नादे) नदनीयस्य स्तोतव्यस्य स्तवने “नदति-अर्चतिकर्मा” [निघ०३।१४] यद्वा घोषणीयस्य घोषणे, गर्जनीस्य गर्जने (मे मनः-परिपातु) मम मनोभावं कामं परिरक्षतु-परिपूरयतु (अदितिः-इष्टस्य मध्ये नः निदधातु) ‘अदितिः-पष्ठीस्थाने प्रथमा व्यत्ययेन’, अखण्डनी-यस्यानश्वरस्याभीष्टस्य मोक्षस्य, अखण्डराष्ट्रस्य, पार्थिवस्यान्नादि-भोगस्य मध्येऽस्मान् स परमात्मा सूर्यो वा नितरां निरन्तरं स्थापयतु (प्रथमः-ज्येष्ठः-भ्राता नः विवोचति) प्रतमः-प्रकृष्टतमः श्रेष्ठो भरणकर्त्ता परमात्मा विशिष्टं वदति-स्वीकारवचनं ब्रवीति-अस्मान् स्वीकरोति, स सूर्यो विवाचयति-वाक् शक्तिं प्रयच्छति ॥२॥