Loading...
ऋग्वेद मण्डल - 10 के सूक्त 11 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 11/ मन्त्र 3
    ऋषिः - हविर्धान आङ्गिः देवता - अग्निः छन्दः - विराट्जगती स्वरः - निषादः

    सो चि॒न्नु भ॒द्रा क्षु॒मती॒ यश॑स्वत्यु॒षा उ॑वास॒ मन॑वे॒ स्व॑र्वती । यदी॑मु॒शन्त॑मुश॒तामनु॒ क्रतु॑म॒ग्निं होता॑रं वि॒दथा॑य॒ जीज॑नन् ॥

    स्वर सहित पद पाठ

    सो इति॑ । चि॒त् । नु । भ॒द्रा । क्षु॒ऽमती॑ । यश॑स्वती । उ॒षाः । उ॒वा॒स॒ । मन॑वे । स्वः॑ऽवती । यत् । ई॒म् । उ॒शन्त॑म् । उ॒श॒ताम् । अनु॑ । ऋतु॑म् । अ॒ग्निम् । होता॑रम् । वि॒दथा॑य । जीज॑नन् ॥


    स्वर रहित मन्त्र

    सो चिन्नु भद्रा क्षुमती यशस्वत्युषा उवास मनवे स्वर्वती । यदीमुशन्तमुशतामनु क्रतुमग्निं होतारं विदथाय जीजनन् ॥

    स्वर रहित पद पाठ

    सो इति । चित् । नु । भद्रा । क्षुऽमती । यशस्वती । उषाः । उवास । मनवे । स्वःऽवती । यत् । ईम् । उशन्तम् । उशताम् । अनु । ऋतुम् । अग्निम् । होतारम् । विदथाय । जीजनन् ॥ १०.११.३

    ऋग्वेद - मण्डल » 10; सूक्त » 11; मन्त्र » 3
    अष्टक » 7; अध्याय » 6; वर्ग » 9; मन्त्र » 3

    पदार्थः -
    (सा-चित्-उ नु) सा खल्वपि सद्यः नु क्षिप्रनाम” [निघ०२।९] (भद्रा) भजनीया, भागवती “भद्रं भगेन व्याख्यातं भजनीयम्” [निरु०४।९] (क्षुमती) प्रशस्यान्नवती “क्षु-अन्ननाम” [निघ०२।७] (यशस्वती) कीर्तिमती (स्वर्वती) सुखवती (उषाः-मनवे-उवास) कमनीया प्रतिभा प्रादुभर्वति, राष्ट्रभूमिः कामयमाना प्रजा वा सम्भवति, मनवे-आस्तिकमनस्विने विदुषे “विद्वांसस्ते मनवः” [श०८।६।३।१८] प्रजापालकाय राज्ञे वा “प्रजापतिर्वै मनुः” [श०६।६।१।१९] (यत्-ईम्) यदा हि (उशताम्-उशन्तं क्रतुं होतारम्-अग्निम्-अनु) कामयमानानां कामयमानं कर्त्तारं सुखदातारं ज्ञानप्रकाशकं परत्मात्मानमानुकूल्येन (विदथाय) वेदनाय स्वात्मनि भावनाय “तज्जपस्तदर्थभावनम्” [योग०] “विदथा वेदनेन” [निरु०३।१२] (जीजनन् ) प्रादुर्भावयन्ति ॥३॥

    इस भाष्य को एडिट करें
    Top