ऋग्वेद - मण्डल 10/ सूक्त 11/ मन्त्र 4
अध॒ त्यं द्र॒प्सं वि॒भ्वं॑ विचक्ष॒णं विराभ॑रदिषि॒तः श्ये॒नो अ॑ध्व॒रे । यदी॒ विशो॑ वृ॒णते॑ द॒स्ममार्या॑ अ॒ग्निं होता॑र॒मध॒ धीर॑जायत ॥
स्वर सहित पद पाठअध॑ । त्यम् । द्र॒प्सम् । वि॒भ्व॑म् । वि॒ऽच॒क्ष॒णम् । विः । आ । अ॒भ॒र॒त् । इ॒षि॒तः । श्ये॒नः । अ॒ध्व॒रे । यदि॑ । विशः॑ । वृ॒णते॑ । द॒स्मम् । आर्याः॑ । अ॒ग्निम् । होता॑रम् । अध॑ । धीः । अ॒जा॒य॒त॒ ॥
स्वर रहित मन्त्र
अध त्यं द्रप्सं विभ्वं विचक्षणं विराभरदिषितः श्येनो अध्वरे । यदी विशो वृणते दस्ममार्या अग्निं होतारमध धीरजायत ॥
स्वर रहित पद पाठअध । त्यम् । द्रप्सम् । विभ्वम् । विऽचक्षणम् । विः । आ । अभरत् । इषितः । श्येनः । अध्वरे । यदि । विशः । वृणते । दस्मम् । आर्याः । अग्निम् । होतारम् । अध । धीः । अजायत ॥ १०.११.४
ऋग्वेद - मण्डल » 10; सूक्त » 11; मन्त्र » 4
अष्टक » 7; अध्याय » 6; वर्ग » 9; मन्त्र » 4
अष्टक » 7; अध्याय » 6; वर्ग » 9; मन्त्र » 4
पदार्थः -
(अध) अनन्तरम् (त्यं विभ्वं विचक्षणं द्रप्सम्) तं महान्तं सावधानकर्त्तारं प्रकाशरूपं हर्षकरं मोक्षपदम् “दृप् हर्षे” [दिवा०] ततः सः प्रत्यय औणादिकः, तथा महान्तं सावधानतया रक्षणीयं पार्थिवं पृथिवीपतिपदम् “द्रप्सं पार्थिवं भूगोलम्” [यजु०१३।२ दयानन्दः] (अध्वरे) अध्यात्मयज्ञे (विः-श्येनः-इषितः-आभरत्) अर्चयिता-स्तुतिकर्त्ता “वेति-अर्चतिकर्मा” [निघ०२।६] शंसनीयगतिकः-पुण्यवान्-इन्द्रः-आत्मा “इन्द्रो वा एतेन साम्ना श्येनो भूत्वा असुरानपवयत्” [जै०३।१५८] परमात्मना प्रेरितः-आसमन्ताद् धारयति (यदि दस्मम्-अग्निं होतारम्-आर्याः-विशः-वृणते) यदा हि दर्शनीयं ज्ञानप्रकाशकं परमात्मानं सर्वसुखदातारं वा श्रेष्ठा उपासका जनाः प्रजा वा सम्भजन्ति वरयन्ति वा (अध धीः-अजायत) अनन्तरं स परमात्माऽऽस्तिकानां राजा वा प्रजानामाधारः “धीङ्-आधारे” [दिवादिः] अजायत-प्रसिद्धो भवति ॥४॥