ऋग्वेद - मण्डल 10/ सूक्त 118/ मन्त्र 6
ऋषिः - उरुक्षय आमहीयवः
देवता - अग्नी रक्षोहा
छन्दः - पादनिचृद्गायत्री
स्वरः - षड्जः
तं म॑र्ता॒ अम॑र्त्यं घृ॒तेना॒ग्निं स॑पर्यत । अदा॑भ्यं गृ॒हप॑तिम् ॥
स्वर सहित पद पाठतम् । म॒र्ताः॒ । अम॑र्त्यम् । घृ॒तेन॑ । अ॒ग्निम् । स॒प॒र्य॒त॒ । अदा॑भ्यम् । गृ॒हऽप॑तिम् ॥
स्वर रहित मन्त्र
तं मर्ता अमर्त्यं घृतेनाग्निं सपर्यत । अदाभ्यं गृहपतिम् ॥
स्वर रहित पद पाठतम् । मर्ताः । अमर्त्यम् । घृतेन । अग्निम् । सपर्यत । अदाभ्यम् । गृहऽपतिम् ॥ १०.११८.६
ऋग्वेद - मण्डल » 10; सूक्त » 118; मन्त्र » 6
अष्टक » 8; अध्याय » 6; वर्ग » 25; मन्त्र » 1
अष्टक » 8; अध्याय » 6; वर्ग » 25; मन्त्र » 1
पदार्थः -
(मर्ताः) हे मनुष्याः ! “मर्ताः-मनुष्यनाम” [निघ० २।३] (तम्-अमर्त्यम्-अग्निम्) तमविनाशिनं परमात्मानं यद्वा पृथिवीजलादिवत् कणशो न नश्यति तथाभूतं विनाशरहितमग्निं वा (अदाभ्यं गृहपतिम्) अहिंसनीयं हृदयगृहस्वामिनं यद्वा यज्ञगृहस्वामिनं (घृतेन सपर्यत) देवकर्मणा मुमुक्षुकर्मणा ब्रह्मचर्यादिना यद्वा होमेन सेवध्वम् ॥६॥