ऋग्वेद - मण्डल 10/ सूक्त 129/ मन्त्र 3
ऋषिः - प्रजापतिः परमेष्ठी
देवता - भाववृत्तम्
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
तम॑ आसी॒त्तम॑सा गू॒ळ्हमग्रे॑ऽप्रके॒तं स॑लि॒लं सर्व॑मा इ॒दम् । तु॒च्छ्येना॒भ्वपि॑हितं॒ यदासी॒त्तप॑स॒स्तन्म॑हि॒नाजा॑य॒तैक॑म् ॥
स्वर सहित पद पाठतमः॑ । आ॒सी॒त् । तम॑सा । गू॒ळ्हम् । अग्रे॑ । अ॒प्र॒ऽके॒तम् । स॒लि॒लम् । सर्व॑म् । आः॒ । इ॒दम् । तु॒च्छ्येन॑ । आ॒भु । अपि॑ऽहितम् । यत् । आसी॑त् । तप॑सः । तत् । म॒हि॒ना । अ॒जा॒य॒त॒ । एक॑म् ॥
स्वर रहित मन्त्र
तम आसीत्तमसा गूळ्हमग्रेऽप्रकेतं सलिलं सर्वमा इदम् । तुच्छ्येनाभ्वपिहितं यदासीत्तपसस्तन्महिनाजायतैकम् ॥
स्वर रहित पद पाठतमः । आसीत् । तमसा । गूळ्हम् । अग्रे । अप्रऽकेतम् । सलिलम् । सर्वम् । आः । इदम् । तुच्छ्येन । आभु । अपिऽहितम् । यत् । आसीत् । तपसः । तत् । महिना । अजायत । एकम् ॥ १०.१२९.३
ऋग्वेद - मण्डल » 10; सूक्त » 129; मन्त्र » 3
अष्टक » 8; अध्याय » 7; वर्ग » 17; मन्त्र » 3
अष्टक » 8; अध्याय » 7; वर्ग » 17; मन्त्र » 3
पदार्थः -
(अग्रे तमसा गूढम्) सृष्टेः पूर्वं यदासीत् तदन्धकारेणावृतमासीत् (तमः-आसीत्) अन्धकाररूपमासीत् (इदं सर्वं सलिलम्-आ-अप्रकेतम्) एतत् सर्वं जलमिवैकीभूतमविज्ञेयमासीत् (तुच्छ्येन यत्-अपि-हितम्) तुच्छरूपेण यदावृतं गुप्तं यत् (आभु-आसीत्) तत् ‘आभु’ नामकं सर्वत्र प्रसृतमव्यक्तमुपादानकारणमासीत् “इयं सृष्टिर्यत आबभूव” इति वचनात् सृष्टेरुपादानं (तपसः) परमात्मनो ज्ञानमयात् तपसः (तत्-महिना एकम् अजायत) तन्महत्तत्त्वरूपमेकं जातम् ॥३॥