ऋग्वेद - मण्डल 10/ सूक्त 129/ मन्त्र 4
ऋषिः - प्रजापतिः परमेष्ठी
देवता - भाववृत्तम्
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॒ मन॑सो॒ रेत॑: प्रथ॒मं यदासी॑त् । स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन्हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षा ॥
स्वर सहित पद पाठकामः॑ । तत् । अग्रे॑ । सम् । अ॒व॒र्त॒त॒ । अधि॑ । मन॑सः । रेतः॑ । प्र॒थ॒मम् । यत् । आसी॑त् । स॒तः । बन्धु॑म् । अस॑ति । निः । अ॒वि॒न्द॒न् । हृ॒दि । प्र॒तीष्या॑ । क॒वयः॑ । म॒नी॒षा ॥
स्वर रहित मन्त्र
कामस्तदग्रे समवर्तताधि मनसो रेत: प्रथमं यदासीत् । सतो बन्धुमसति निरविन्दन्हृदि प्रतीष्या कवयो मनीषा ॥
स्वर रहित पद पाठकामः । तत् । अग्रे । सम् । अवर्तत । अधि । मनसः । रेतः । प्रथमम् । यत् । आसीत् । सतः । बन्धुम् । असति । निः । अविन्दन् । हृदि । प्रतीष्या । कवयः । मनीषा ॥ १०.१२९.४
ऋग्वेद - मण्डल » 10; सूक्त » 129; मन्त्र » 4
अष्टक » 8; अध्याय » 7; वर्ग » 17; मन्त्र » 4
अष्टक » 8; अध्याय » 7; वर्ग » 17; मन्त्र » 4
पदार्थः -
(कामः-तत्-अग्रे) आरम्भसृष्टौ-अग्रे कामोऽभिलाषः (यत्-मनसः-अधि सम् अवर्तत) यत् खलु मनसोऽभ्यन्तरे प्रसिद्धो जातः (प्रथमं रेतः-आसीत्) यत् प्रथमं प्राणिबीजमासीत् “रेतः पुरुषस्य प्रथमं सम्भवतः सम्भवति” [ऐ० ३।२] (कवयः) क्रान्तदर्शिनो विद्वांसः (असति सतः-बन्धुं मनीषा प्रतीष्य) अशरीरिणि खल्वात्मनि तन्निमित्तं शरीरस्य बन्धयितारं विवेचनशीलया बुद्ध्या प्रतीत्य निश्चित्य (हृदि निः-अविन्दन्) हृदये निर्विण्णा अभवन् वैराग्यं प्राप्नुवन् ॥४॥