ऋग्वेद - मण्डल 10/ सूक्त 137/ मन्त्र 4
ऋषिः - सप्त ऋषय एकर्चाः
देवता - विश्वेदेवा:
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
आ त्वा॑गमं॒ शंता॑तिभि॒रथो॑ अरि॒ष्टता॑तिभिः । दक्षं॑ ते भ॒द्रमाभा॑र्षं॒ परा॒ यक्ष्मं॑ सुवामि ते ॥
स्वर सहित पद पाठआ । त्वा॒ । अ॒ग॒म॒म् । शन्ता॑तिऽभिः । अथो॒ इति॑ । अ॒रि॒ष्टता॑तिऽभिः । दक्ष॑म् । ते॒ । भ॒द्रम् । आ । अ॒भा॒र्ष॒म् । परा॑ । यक्ष्म॑म् । सु॒वा॒मि॒ ते ॥
स्वर रहित मन्त्र
आ त्वागमं शंतातिभिरथो अरिष्टतातिभिः । दक्षं ते भद्रमाभार्षं परा यक्ष्मं सुवामि ते ॥
स्वर रहित पद पाठआ । त्वा । अगमम् । शन्तातिऽभिः । अथो इति । अरिष्टतातिऽभिः । दक्षम् । ते । भद्रम् । आ । अभार्षम् । परा । यक्ष्मम् । सुवामि ते ॥ १०.१३७.४
ऋग्वेद - मण्डल » 10; सूक्त » 137; मन्त्र » 4
अष्टक » 8; अध्याय » 7; वर्ग » 25; मन्त्र » 4
अष्टक » 8; अध्याय » 7; वर्ग » 25; मन्त्र » 4
पदार्थः -
(त्वा) हे रोगिन् ! त्वां (शन्तातिभिः-अथ-उ-अरिष्टतातिभिः) शङ्करैस्तथाऽहिंसितकरैः पीडानिवारकैरुपायैः सहाहमागच्छामि “शिवशमरिष्टस्य करे” [अष्टा० ४।४।१४३] (ते) तुभ्यं (दक्षं भद्रम्-आ अभार्षम्) बलं कल्याणमानीतवान् (ते यक्ष्मं परा सुवामि) तव रोगं परा नयामि दूरीकरोमि ॥४॥