Loading...
ऋग्वेद मण्डल - 10 के सूक्त 145 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 145/ मन्त्र 4
    ऋषिः - इन्द्राणी देवता - उपनिषत्सपत्नीबाधनम् छन्दः - अनुष्टुप् स्वरः - गान्धारः

    न॒ह्य॑स्या॒ नाम॑ गृ॒भ्णामि॒ नो अ॒स्मिन्र॑मते॒ जने॑ । परा॑मे॒व प॑रा॒वतं॑ स॒पत्नीं॑ गमयामसि ॥

    स्वर सहित पद पाठ

    न॒हि । अ॒स्याः॒ । नाम॑ । गृ॒भ्णामि॑ । नो इति॑ । अ॒स्मिन् । र॒म॒ते॒ । जने॑ । परा॑म् । ए॒व । प॒रा॒ऽवत॑म् । स॒ऽपत्नी॑म् । ग॒म॒या॒म॒सि॒ ॥


    स्वर रहित मन्त्र

    नह्यस्या नाम गृभ्णामि नो अस्मिन्रमते जने । परामेव परावतं सपत्नीं गमयामसि ॥

    स्वर रहित पद पाठ

    नहि । अस्याः । नाम । गृभ्णामि । नो इति । अस्मिन् । रमते । जने । पराम् । एव । पराऽवतम् । सऽपत्नीम् । गमयामसि ॥ १०.१४५.४

    ऋग्वेद - मण्डल » 10; सूक्त » 145; मन्त्र » 4
    अष्टक » 8; अध्याय » 8; वर्ग » 3; मन्त्र » 4

    पदार्थः -
    (अस्याः-नाम न हि गृभ्णामि) अस्याः कामवासनायाः खलु नाम नहि ग्राहयामि ‘अन्तर्गतो णिजर्थः’ अहमुपनिषदध्यात्मविद्या (अस्मिन् जने न रमते) यस्मिन् ह्यहमध्यात्मविद्या रमे, अस्मिन्-अध्यात्मविद्यावति शान्ते जने न कामवासना रमतेऽवतिष्ठते (सपत्नीम्) विरोधिनीं कामवासनां (पराम्-एव परावतम्) परामन्यां दिशं हि तथाऽन्यं दूरदेशं (गमयामसि) प्रेरयामसि प्रक्षिपामि “अस्मदो द्वयोश्च” [अष्टा० १।२।५९] ॥४॥

    इस भाष्य को एडिट करें
    Top