Loading...
ऋग्वेद मण्डल - 10 के सूक्त 152 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 152/ मन्त्र 3
    ऋषिः - शासो भारद्वाजः देवता - इन्द्र: छन्दः - अनुष्टुप् स्वरः - गान्धारः

    वि रक्षो॒ वि मृधो॑ जहि॒ वि वृ॒त्रस्य॒ हनू॑ रुज । वि म॒न्युमि॑न्द्र वृत्रहन्न॒मित्र॑स्याभि॒दास॑तः ॥

    स्वर सहित पद पाठ

    वि । रक्षः॑ । वि । मृधः॑ । ज॒हि॒ । वि । वृ॒त्रस्य॑ । हनू॒ इति॑ । रु॒ज॒ । वि । म॒न्युम् । इ॒न्द्र॒ । वृ॒त्र॒ऽह॒न् । अ॒मित्र॑स्य । अ॒भि॒ऽदास॑तः ॥


    स्वर रहित मन्त्र

    वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज । वि मन्युमिन्द्र वृत्रहन्नमित्रस्याभिदासतः ॥

    स्वर रहित पद पाठ

    वि । रक्षः । वि । मृधः । जहि । वि । वृत्रस्य । हनू इति । रुज । वि । मन्युम् । इन्द्र । वृत्रऽहन् । अमित्रस्य । अभिऽदासतः ॥ १०.१५२.३

    ऋग्वेद - मण्डल » 10; सूक्त » 152; मन्त्र » 3
    अष्टक » 8; अध्याय » 8; वर्ग » 10; मन्त्र » 3

    पदार्थः -
    (इन्द्र) परमात्मन् राजन् ! वा (रक्षः-वि जहि) रक्षितव्यं यस्मात् तं दुष्टं विनाशय (मृधः-वि) संग्रामकर्तॄन् विनाशय (वृत्रस्य हनू रुज) आक्रमणकारिणः हनू-मुखस्याङ्गविशेषो पीडय (वृत्रहन्) आक्रमणकारिणो हन्तः ! ( अभिदासतः-अमित्रस्य मन्युं वि) सम्मुखं नाशयतः शत्रोः क्रोधं विगमय ॥३॥

    इस भाष्य को एडिट करें
    Top