साइडबार
ऋग्वेद - मण्डल 10/ सूक्त 186/ मन्त्र 3
यद॒दो वा॑त ते गृ॒हे॒३॒॑ऽमृत॑स्य नि॒धिर्हि॒तः । ततो॑ नो देहि जी॒वसे॑ ॥
स्वर सहित पद पाठयत् । अ॒दः । वा॒त॒ । ते॒ । गृ॒हे । अ॒मृत॑स्य । नि॒धिः । हि॒तः । ततः॑ । नः॒ । दे॒हि॒ । जी॒वसे॑ ॥
स्वर रहित मन्त्र
यददो वात ते गृहे३ऽमृतस्य निधिर्हितः । ततो नो देहि जीवसे ॥
स्वर रहित पद पाठयत् । अदः । वात । ते । गृहे । अमृतस्य । निधिः । हितः । ततः । नः । देहि । जीवसे ॥ १०.१८६.३
ऋग्वेद - मण्डल » 10; सूक्त » 186; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 44; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 44; मन्त्र » 3
पदार्थः -
(वात) हे वायो ! (ते गृहे) तव ग्रहणे प्रतिष्ठाने “गृहा वै प्रतिष्ठा” [श० १।१।१९] (यत्-अदः-अमृतस्य निधिः-हितः) यदसौ ‘लिङ्गव्यत्ययः’ अमृतस्य-अमरणस्य जीवनस्य निधिर्निक्षेपः कोषो निहितोऽस्ति (ततः-नः-जीवसे देहि) तस्मादस्माकं जीवनाय देहीत्यर्थः ॥३॥