Loading...
ऋग्वेद मण्डल - 10 के सूक्त 187 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 187/ मन्त्र 2
    ऋषिः - वत्स आग्नेयः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः

    यः पर॑स्याः परा॒वत॑स्ति॒रो धन्वा॑ति॒रोच॑ते । स न॑: पर्ष॒दति॒ द्विष॑: ॥

    स्वर सहित पद पाठ

    यः । पर॑स्याः । प॒रा॒ऽवतः॑ । ति॒रः । धन्व॑ । अ॒ति॒ऽरोच॑ते । सः । नः॒ । प॒र्ष॒त् । अति॑ । द्विषः॑ ॥


    स्वर रहित मन्त्र

    यः परस्याः परावतस्तिरो धन्वातिरोचते । स न: पर्षदति द्विष: ॥

    स्वर रहित पद पाठ

    यः । परस्याः । पराऽवतः । तिरः । धन्व । अतिऽरोचते । सः । नः । पर्षत् । अति । द्विषः ॥ १०.१८७.२

    ऋग्वेद - मण्डल » 10; सूक्त » 187; मन्त्र » 2
    अष्टक » 8; अध्याय » 8; वर्ग » 45; मन्त्र » 2

    पदार्थः -
    (यः परस्याः परावतः) यः परमेश्वरः परस्यादिशो दूरदेशाच्च (धन्व तिरः-अतिरोचते) अन्तरिक्षे “धन्व-अन्तरिक्षनाम” [निघ० १।३] “सुपां सुलुक्” [अष्टा० ७।१।३९] इति ङिविभक्तेर्लुक्, विस्तीर्णः सन् बहु प्रकाशते (स नः० ) पूर्ववत् ॥२॥

    इस भाष्य को एडिट करें
    Top