Loading...
ऋग्वेद मण्डल - 10 के सूक्त 187 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 187/ मन्त्र 3
    ऋषिः - वत्स आग्नेयः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः

    यो रक्षां॑सि नि॒जूर्व॑ति॒ वृषा॑ शु॒क्रेण॑ शो॒चिषा॑ । स न॑: पर्ष॒दति॒ द्विष॑: ॥

    स्वर सहित पद पाठ

    यः । रक्षां॑सि । नि॒ऽजूर्व॑ति । वृषा॑ । शु॒क्रेण॑ । शो॒चिषा॑ । सः । नः॒ । प॒र्ष॒त् । अति॑ । द्विषः॑ ॥


    स्वर रहित मन्त्र

    यो रक्षांसि निजूर्वति वृषा शुक्रेण शोचिषा । स न: पर्षदति द्विष: ॥

    स्वर रहित पद पाठ

    यः । रक्षांसि । निऽजूर्वति । वृषा । शुक्रेण । शोचिषा । सः । नः । पर्षत् । अति । द्विषः ॥ १०.१८७.३

    ऋग्वेद - मण्डल » 10; सूक्त » 187; मन्त्र » 3
    अष्टक » 8; अध्याय » 8; वर्ग » 45; मन्त्र » 3

    पदार्थः -
    (यः-वृषा) यः सुखवर्षकः परमेश्वरः (शुक्रेण शोचिषा) शुभ्रेण तेजसा (रक्षांसि निजूर्वति) दुष्टान् जनान् नाशयति “जूर्वति वधकर्मा” [निघ० २।१३] (स नः०) पूर्ववत् ॥३॥

    इस भाष्य को एडिट करें
    Top