ऋग्वेद - मण्डल 10/ सूक्त 187/ मन्त्र 4
यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति । स न॑: पर्ष॒दति॒ द्विष॑: ॥
स्वर सहित पद पाठयः । विश्वा॑ । अ॒भि । वि॒ऽपश्य॑ति । भुव॑ना । सम् । च॒ । पश्य॑ति । सः । नः॒ । प॒र्ष॒त् । अति॑ । द्विषः॑ ॥
स्वर रहित मन्त्र
यो विश्वाभि विपश्यति भुवना सं च पश्यति । स न: पर्षदति द्विष: ॥
स्वर रहित पद पाठयः । विश्वा । अभि । विऽपश्यति । भुवना । सम् । च । पश्यति । सः । नः । पर्षत् । अति । द्विषः ॥ १०.१८७.४
ऋग्वेद - मण्डल » 10; सूक्त » 187; मन्त्र » 4
अष्टक » 8; अध्याय » 8; वर्ग » 45; मन्त्र » 4
अष्टक » 8; अध्याय » 8; वर्ग » 45; मन्त्र » 4
पदार्थः -
(यः-विश्वा भुवना) यः परमेश्वरः सर्वाणि लोकलोकान्तराणि भूतानि च (अभिविपश्यति) सम्मुखं बाह्यं पश्यति-जानाति (च) तथा (सम्पश्यति) अन्तस्तः पश्यति जानाति (स नः०) पूर्ववत् ॥४॥