ऋग्वेद - मण्डल 10/ सूक्त 23/ मन्त्र 4
ऋषिः - विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः
देवता - इन्द्र:
छन्दः - भुरिगार्चीजगती
स्वरः - निषादः
सो चि॒न्नु वृ॒ष्टिर्यू॒थ्या॒३॒॑ स्वा सचाँ॒ इन्द्र॒: श्मश्रू॑णि॒ हरि॑ता॒भि प्रु॑ष्णुते । अव॑ वेति सु॒क्षयं॑ सु॒ते मधूदिद्धू॑नोति॒ वातो॒ यथा॒ वन॑म् ॥
स्वर सहित पद पाठसो इति॑ । चि॒त् । नु । वृ॒ष्टिः । यू॒थ्या॑ । स्वा । सचा॑ । इन्द्रः॑ । श्मश्रू॑णि । हरि॑ता । अ॒भि । प्रु॒ष्णु॒ते॒ । अव॑ । वे॒ति॒ । सु॒ऽक्षय॑म् । सु॒ते । मधु॑ । उत् । इत् । धू॒नो॒ति॒ । वातः॑ । यथा॑ । वन॑म् ॥
स्वर रहित मन्त्र
सो चिन्नु वृष्टिर्यूथ्या३ स्वा सचाँ इन्द्र: श्मश्रूणि हरिताभि प्रुष्णुते । अव वेति सुक्षयं सुते मधूदिद्धूनोति वातो यथा वनम् ॥
स्वर रहित पद पाठसो इति । चित् । नु । वृष्टिः । यूथ्या । स्वा । सचा । इन्द्रः । श्मश्रूणि । हरिता । अभि । प्रुष्णुते । अव । वेति । सुऽक्षयम् । सुते । मधु । उत् । इत् । धूनोति । वातः । यथा । वनम् ॥ १०.२३.४
ऋग्वेद - मण्डल » 10; सूक्त » 23; मन्त्र » 4
अष्टक » 7; अध्याय » 7; वर्ग » 9; मन्त्र » 4
अष्टक » 7; अध्याय » 7; वर्ग » 9; मन्त्र » 4
पदार्थः -
(सा-उ चित्-नु वृष्टिः) सैव खलूत्तमा सुखवृष्टी राष्ट्रे, यया (इन्द्रः, स्वा यूथ्या सचा) राजा “स्वा” स्वया, यूथ्या यूथया साकम् (हरिता श्मश्रूणि) हरितवर्णानि कृषिभूमेर्धान्यतृणानि (अभि प्रुष्णुते) अभिषिक्तानि मन्यते “ष्णु प्रस्रवणे” [अदादि०] तदा हि (सुक्षयम्-अव वेति) उत्तमस्थानं राष्ट्रं प्राप्नोति (सुते) निष्पन्ने (मधु) मधुनि-मधुमये राष्ट्रे (इत्) एव (उद्-धूनोति) विरोधिनं कम्पयति (वातः-यथा वनम्) प्रबलो वायुर्यथा वनं कम्पयति ॥४॥