ऋग्वेद - मण्डल 10/ सूक्त 23/ मन्त्र 5
ऋषिः - विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
यो वा॒चा विवा॑चो मृ॒ध्रवा॑चः पु॒रू स॒हस्राशि॑वा ज॒घान॑ । तत्त॒दिद॑स्य॒ पौंस्यं॑ गृणीमसि पि॒तेव॒ यस्तवि॑षीं वावृ॒धे शव॑: ॥
स्वर सहित पद पाठयः । वा॒चा । विऽवा॑चः । मृ॒ध्रऽवा॑चः । पु॒रु । स॒हस्रा॑ । असि॑वा । ज॒घान॑ । तत्ऽत॑त् । इत् । अ॒स्य॒ । पौंस्य॑म् । गृ॒णी॒म॒सि॒ । पि॒ताऽइ॑व । यः । तवि॑षीम् । व॒वृ॒धे । शवः॑ ॥
स्वर रहित मन्त्र
यो वाचा विवाचो मृध्रवाचः पुरू सहस्राशिवा जघान । तत्तदिदस्य पौंस्यं गृणीमसि पितेव यस्तविषीं वावृधे शव: ॥
स्वर रहित पद पाठयः । वाचा । विऽवाचः । मृध्रऽवाचः । पुरु । सहस्रा । असिवा । जघान । तत्ऽतत् । इत् । अस्य । पौंस्यम् । गृणीमसि । पिताऽइव । यः । तविषीम् । ववृधे । शवः ॥ १०.२३.५
ऋग्वेद - मण्डल » 10; सूक्त » 23; मन्त्र » 5
अष्टक » 7; अध्याय » 7; वर्ग » 9; मन्त्र » 5
अष्टक » 7; अध्याय » 7; वर्ग » 9; मन्त्र » 5
पदार्थः -
(यः) यः खल्विन्द्रः शासकः (वाचा) वज्रेण “व्रज्र एव वाक्” [ऐ० २।२१] (विवाचः मृध्रवाचः) विरुद्धा वाग्येषां ते तथा मृध्रा हिंसिका वाग्येषां ते “मृध्रा हिंस्रा वाग्येषां ते” [ऋ० ७।६।३ दयानन्दः] अशिवाः अकल्याणचिन्तकाः शत्रवः सन्तीति तेषाम् (पुरुरू सहस्रा) पुरूणि बहूनि सहस्राणि “पुरु बहुनाम” [निघ० ३।१] आकारादेश उभयत्र छान्दसः (जघान) हन्ति (अस्य तत्-तत्-इत् पौंस्यम्) अस्य तत्तद्विषयकं सर्वं हि पौरुषम् (गृणीमसि) प्रशंसामः (यः) यः खलु (पिता-इव तविषीं शवः-ववृधे) यथा पिता तद्वदस्माकं बलम् “तविषी बलनाम” [निघ० २।९] धनम् “शवः धननाम” [निघ० २।१०] वर्धते ॥५॥