ऋग्वेद - मण्डल 10/ सूक्त 27/ मन्त्र 1
अस॒त्सु मे॑ जरित॒: साभि॑वे॒गो यत्सु॑न्व॒ते यज॑मानाय॒ शिक्ष॑म् । अना॑शीर्दाम॒हम॑स्मि प्रह॒न्ता स॑त्य॒ध्वृतं॑ वृजिना॒यन्त॑मा॒भुम् ॥
स्वर सहित पद पाठअस॑त् । सु । मे॒ । ज॒रि॒त॒रिति॑ । सः । अ॒भि॒ऽवे॒गः । यत् । सु॒न्व॒ते । यज॑मानाय । शिक्ष॑म् । अना॑शीःऽदाम् । अ॒हम् । अ॒स्मि॒ । प्र॒ऽह॒न्ता । स॒त्य॒ऽध्वृत॑म् । वृ॒जि॒न॒ऽयन्त॑म् । आ॒भुम् ॥
स्वर रहित मन्त्र
असत्सु मे जरित: साभिवेगो यत्सुन्वते यजमानाय शिक्षम् । अनाशीर्दामहमस्मि प्रहन्ता सत्यध्वृतं वृजिनायन्तमाभुम् ॥
स्वर रहित पद पाठअसत् । सु । मे । जरितरिति । सः । अभिऽवेगः । यत् । सुन्वते । यजमानाय । शिक्षम् । अनाशीःऽदाम् । अहम् । अस्मि । प्रऽहन्ता । सत्यऽध्वृतम् । वृजिनऽयन्तम् । आभुम् ॥ १०.२७.१
ऋग्वेद - मण्डल » 10; सूक्त » 27; मन्त्र » 1
अष्टक » 7; अध्याय » 7; वर्ग » 15; मन्त्र » 1
अष्टक » 7; अध्याय » 7; वर्ग » 15; मन्त्र » 1
विषयः - अत्र सूक्ते परमात्मजीवात्मगुणाः सृष्टिरचना शरीररचनादयो विविधा विषयाः प्रदर्श्यन्ते।
पदार्थः -
(जरितः) हे स्तोतः ! “जरिता स्तोतृनाम” [निघ० ३।१६] (मे) मम (सः अभिवेगः) ‘मन्त्रे सन्धिश्छान्दसः’ “सुपां सुलुक्० [अष्टा० ७।१।९] इति सोर्लुकि कृते” स खल्वभिवेगः शाश्वतिकः स्वभावः (सु-असत्) शोभनोऽस्ति (यत्) यतः (सुन्वते यजमानाय शिक्षम्) उपासनारसं निष्पादयते स्वात्मानं समर्पयतेऽध्यात्मयाजिने निजानन्तानन्दं ददामि “शिक्षतिर्दानकर्मा” [निघं० ३।२०] (अनाशीर्दाम्) आशीः प्रार्थना “बह्वी वै यजुः स्वाशीः” [श० १।२।१।७] “अथेयमितराशीराशास्ते” [निरु० ६।८] अनाशीर्दाः अस्तुतिप्रार्थनाकर्त्ता सामर्थ्यात्-अस्तोता नास्तिकस्तम् (अहं प्रहन्ता अस्मि) अहं प्रहन्मीति शीलवानस्मि (सत्यध्वृतं वृजिनायन्तम्-आभुम्) सत्यविनाशकं पापमाचरन्तम् आक्रमणकारिणं जनं च प्रहन्मि ॥१॥