ऋग्वेद - मण्डल 10/ सूक्त 43/ मन्त्र 3
वि॒षू॒वृदिन्द्रो॒ अम॑तेरु॒त क्षु॒धः स इद्रा॒यो म॒घवा॒ वस्व॑ ईशते । तस्येदि॒मे प्र॑व॒णे स॒प्त सिन्ध॑वो॒ वयो॑ वर्धन्ति वृष॒भस्य॑ शु॒ष्मिण॑: ॥
स्वर सहित पद पाठवि॒षु॒ऽवृत् । इन्द्रः॑ । अम॑तेः । उ॒त् । क्षु॒धः । सः । इत् । रा॒यः । म॒घऽवा॑ । वस्वः॑ । ई॒श॒ते॒ । तस्य॑ । इ॒मे । प्र॒व॒णे । स॒प्त । सिन्ध॑वः । वयः॑ । व॒र्ध॒न्ति॒ । वृ॒ष॒भस्य॑ । शु॒ष्मिणः॑ ॥
स्वर रहित मन्त्र
विषूवृदिन्द्रो अमतेरुत क्षुधः स इद्रायो मघवा वस्व ईशते । तस्येदिमे प्रवणे सप्त सिन्धवो वयो वर्धन्ति वृषभस्य शुष्मिण: ॥
स्वर रहित पद पाठविषुऽवृत् । इन्द्रः । अमतेः । उत् । क्षुधः । सः । इत् । रायः । मघऽवा । वस्वः । ईशते । तस्य । इमे । प्रवणे । सप्त । सिन्धवः । वयः । वर्धन्ति । वृषभस्य । शुष्मिणः ॥ १०.४३.३
ऋग्वेद - मण्डल » 10; सूक्त » 43; मन्त्र » 3
अष्टक » 7; अध्याय » 8; वर्ग » 24; मन्त्र » 3
अष्टक » 7; अध्याय » 8; वर्ग » 24; मन्त्र » 3
पदार्थः -
(सः इन्द्रः) स परमात्मा (विषुवृत्) विषमान् खल्वसरलान् वृणोति-आच्छादयति निवारयति वा सः ‘विषुरूपे विषमरूपे” [निरु० १२।२८] (अमतेः-उत क्षुधः) अज्ञानस्यापि चाशनायाश्च निवारकः (मघवा-इत्-रायः-वस्वः ईशते) स ऐश्वर्यवान् परमात्मा हि बाह्यधनस्य तथा वासयितुरात्मबलस्याध्यात्मैश्वर्यस्य चेष्टे स्वामित्वं करोति (वृषभस्य शुष्मिणः-तस्य इत् प्रवणे) तस्यैव सुखवर्षयितुर्बलवतः परमात्मनो निम्ने शासने (इमे सप्त सिन्धवः) एते सर्पणशीलाः प्राणा नद्यो वा “प्राणो वै सिन्धुश्छन्दः” [श० ८।५।२।४] (वयः-वर्धन्ति) जीवनमन्नं वा वर्धयन्ति ॥३॥