ऋग्वेद - मण्डल 10/ सूक्त 63/ मन्त्र 15
ऋषिः - गयः प्लातः
देवता - पथ्यास्वस्तिः
छन्दः - जगती त्रिष्टुप् वा
स्वरः - निषादो धैवतो वा
स्व॒स्ति न॑: प॒थ्या॑सु॒ धन्व॑सु स्व॒स्त्य१॒॑प्सु वृ॒जने॒ स्व॑र्वति । स्व॒स्ति न॑: पुत्रकृ॒थेषु॒ योनि॑षु स्व॒स्ति रा॒ये म॑रुतो दधातन ॥
स्वर सहित पद पाठस्व॒स्ति । नः॒ । प॒थ्या॑सु । धन्व॑ऽसु । स्व॒स्ति । अ॒प्ऽसु । वृ॒जने॑ । स्वः॑ऽवति । स्व॒स्ति । नः॒ । पु॒त्र॒ऽकृ॒थेषु॑ । योनि॑षु । स्व॒स्ति । रा॒ये । म॒रु॒तः॒ । द॒धा॒त॒न॒ ॥
स्वर रहित मन्त्र
स्वस्ति न: पथ्यासु धन्वसु स्वस्त्य१प्सु वृजने स्वर्वति । स्वस्ति न: पुत्रकृथेषु योनिषु स्वस्ति राये मरुतो दधातन ॥
स्वर रहित पद पाठस्वस्ति । नः । पथ्यासु । धन्वऽसु । स्वस्ति । अप्ऽसु । वृजने । स्वःऽवति । स्वस्ति । नः । पुत्रऽकृथेषु । योनिषु । स्वस्ति । राये । मरुतः । दधातन ॥ १०.६३.१५
ऋग्वेद - मण्डल » 10; सूक्त » 63; मन्त्र » 15
अष्टक » 8; अध्याय » 2; वर्ग » 5; मन्त्र » 5
अष्टक » 8; अध्याय » 2; वर्ग » 5; मन्त्र » 5
पदार्थः -
(मरुतः) हे जीवन्मुक्ता विद्वांसः ! (नः स्वस्ति पथ्यासु धन्वसु) अस्मभ्यं स्वस्ति पथि भवासु मरुप्रदेशेषु भवतु (स्वस्ति-अप्सु) जलप्रदेशेषु जलेषु वा स्वस्ति भवतु (स्वर्वति वृजने) सुखवति सर्वं दुःखवर्जिते मोक्षे स्वस्ति भवतु (स्वस्ति नः पुत्रकृथेषु योनिषु) कल्याणं सन्तानकर्मसु गृहेषु भवतु (स्वस्ति राये दधातन) कल्याणं धनाय धारयत ॥१५॥